पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२६ )

भाषा

इसके अनन्तर उस गुणी राजा ने उत्कट आनन्द जनित अश्रुओ से भरी आंखो से अन्य स्त्रियो में अप्राप्य गुणों से युक्त तथा आनन्द से निनिमेष नेत्र कमल वाली अपनी रानी को सान्त्वना की

शनैर्विधाय व्रतपारणाविधिं धनैः कृतार्थीकृतविप्रमणमण्डलः ।
अखण्डसौभाग्यविलासया पुनस्तया समं राज्यसुखेष्वरज्यत ।५६।॥

अन्वयः

 (सः)शनैः व्रतपारणाविधि विधाय धनैः कृतार्थीकृतविप्रमण्डल: (सन ) अखण्डसौभाग्यविलासया तया समं पुनः राज्यसुखेषु अरज्यत ।

व्याख्या

 स राजा ज्ञानं स्वस्थचित्तेन व्रतस्य पूर्वाचरितानुष्ठानस्य पारणाविधि समाप्तिकृत्य ब्राह्मणभोजनादिपूर्वक स्वभोजनादिक विधाय कृत्वा कृतार्थीकृत दान‌--भोजनादिना सन्तुष्टमनोरथीकृत विप्रमण्डल व्रह्माणसमुदायो येनैबम्भूतस्सत्रखण्ड निरन्तर यत्सौभाग्य सधवत्व तस्य विलास सौख्य यस्यास्सा तया स्ववल्लभया सह राज्यसुखेषु राजकीयसुखोपभोगेष्वरज्यत सरक्तो बभूव । मन्त्रिविनिविष्ट राज्यकायंभारमुररीकृत्य प्रववत्प्रजापालनतत्परऽभूदिति भाव ।

भाषा

 बह राजा, स्वस्थ चित्त से बत का पारण कर और ब्राह्मणी को दान भोजन आदि सै सन्तुष्ट करते हुए राज्य कार्य का भार लेकर अखण्ड सौभाग्यवती होने के सौख्य से युक्त अपनी रानी के साथ राज्य सुख के उपभोग करने में प्रवृत्त हुआ ।

क्रमेण तस्यां कमनीयमात्मजं शुभे मुहूर्ते पुरुहूतसन्निभः ।
अवाप्य सम्पादितमांसलोत्सवः परामगान्निर्वृतिमीश्वरः क्षिते ॥५७

अन्वयः

 पुरुहूतसन्निभः क्षितेः ईश्वर: क्रमेण शुभे मुहूर्ते तस्यां कमनीय्म् आत्मजम् अवाप्य सम्पादितमासलोत्सवः (सन्) परा निर्वृतिम् अगात् ।