( ११४ )
स धीरमुर्वीन्दुरधीरलोचनामथाङ्कमारोप्य कृपार्द्रमानसः । |
अन्वयः
अथ सः उर्वीन्दुः कूपार्द्रमानसः सन् अधीरलोचनां धीरम् अङ्कम् आरोप्य उज्ज्वल द्विजावलीकान्तिजलैः आतङ्ककलङ्क हरन् इव अवोचत ।
व्याख्या
अथाऽनन्तर स्वपत्न्या दु:खितदशानिरीक्षणानन्तरं सः प्रसिद्ध उर्व्याः पृथिव्या इन्दुश्चन्द्र पृथिवीशोभाधायको राजा कृपया दययाऽऽर्द्रं परिप्लुतं भानस मनो यस्य स एवम्भूतस्सन् अधीरे चञ्चले लोचने नेत्रे ‘लोचन नयनं नेत्रमीक्षणञ्चक्षु- रक्षिणि' इत्यमर । यस्याः सा तां दुखेन चञ्चललोचनां धीरं यथास्यात्तथा धैर्यमवलम्व्याडङ्कं स्योत्सङ्गमारोप्य प्रतिष्ठाप्योज्वला शुभ्रा द्विजानां दन्तानां दन्तविप्राण्डजा द्विजाःइत्यमरः । आवली पक्तिस्तस्य कान्तयः एव जलानि तेरातङ्क एव व्यर्थय कलङ्को मालिन्यं तं हरन्निवाऽपमृजन्निवाऽबोधतोक्त्तवान् । हास्येन स्वभावं गोपयन् पत्न्या सान्त्वनमकरोत् । अत्रोत्प्रेक्षालङ्कारः ।
भाषा
अपनी पत्नी को दुखी देखने के अनन्तर राजा के हृदय मे दया या रांचार होकर उसने चञ्चल नेत्र वाली रानी को, धीरज के साथ अपनी गोद में बैठाकर मानो सफेद दातो की कतार की कान्ति रूपी जल से पीडा रूपी धब्बे को घोते हुए कहा अर्थात् हंसते हुए रानी से कहा ।
अलं विषादेन करोषि किं मुखं कर्वोष्णनिश्श्वासविधूसराधरम् । |
अन्वयः
विषादेन अलं, मुखं कवोष्णनिःश्वसविधूसराधरं कि करोषि । अहं अभीष्टवस्तुप्रतिबन्धिनां कर्मणां निप्रहणाय कृतामहः (अस्मि) ।
व्याख्या
विषादेनाऽलं शोक परिहर्तव्यः । 'अलं भूषणपर्याप्तिशक्तिधारणवाचकम् ’