पृष्ठम्:वास्तुविद्या.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवेदना | अस्यां वास्तुविद्यायां गृहनिर्माणं प्रति साधनं, भूमिः, वास्तुस्वरूपम् इत्यादिकं षोडशभिरध्यायैः प्रतिपादितम् । भवनपरिग्रहाध्यायस्य पञ्चदश- स्यान्ते प्राक् षोडशाध्यायारम्भाद् 'वास्तुविद्या समाप्ता' इति लिखितं छसंज्ञ आदर्शे । तथापि मृल्लोष्टलक्षणपरस्य षोडशाध्यायस्य तत्रापरित्यागाद् आद... र्शान्तरेपूपलम्भाच ग्रन्थाङ्गत्वमेव युक्तम् । अस्यां शैवागमवद् वैखानसागम.. वच्चार्षाः प्रयोगा विद्यन्ते । अस्याः संशोधनाधारभूता ग्रन्था एते- १. राजकयिग्रन्थशालीयः ११ अध्यायैकदेशान्तः क. संज्ञः, २. राजकीय ग्रन्थशालीय: १२ अध्यायान्तः ख. संज्ञः. ३. राजकीयग्रन्थशालीयः ग. संज्ञः. ४. (मान्नार) शङ्करवार्यसम्बन्धी घ. संज्ञः. ५. (नालेकाहु) शङ्करनारायणपिळसम्बन्धी ङ. संज्ञः. ६. (एण्णक्काट्टु) राजसम्बन्धी ८ अध्यायारम्भान्तः च. संज्ञः, ७. (परवूर ) रामाशारिसकाशालन्धः छ. संज्ञः. सर्व इमे केरलीयलिपय उपद्विशतवर्षवृद्धास्तालपत्रात्मकाः । अनन्त शयनम् . त. गणपतिशास्त्री.