पृष्ठम्:वासन्तिकास्वप्नम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
वासान्तिकस्वप्ने

अ एशे । शव्वे वि एदे भीशिदा ह्म । झति ओश्शेळिअ पाणा शंळक्खम्ह ।

अहो। प्रमादः प्रमादः । आश्चर्यमतिभयङ्करश्चैतत् । सर्वेऽपि वयं भीषिताः स्म । झटित्यपसृत्य प्राणान् संरक्षामः ।

[ इति निष्क्रान्ताः

प्रमोहः- ( सोल्लासस्मितम् । ) क्व नु खलु धावथ । अयमहमागत्य वः सर्वानपि वनेऽस्मिन् भीषयित्वा विद्रावयामि ।

[ इति निष्क्रान्तः

अधरकः— कीश एदे घावन्दि । णिअदं एव्व मं भीशेदुं इदं आळद्धम् ।

कथमेते धावंति । नियतमेव मां भीषयितुमिदमारव्धम् ।

( पुनः प्रविश्य राजसः ।)

राजस -- शू चित्ते एशे । अळे अहळआ, कहं ळाशहे तुमं शंवुत्ते । किणो एशे उअळि दे गिव्वाए ।

हंत चित्रमेतत् । रे अधरक कथं रासभस्त्वं संवृत्तः । किमेतदुपरि ते ग्रीवायाः ।

अधरकः-- (सरोषम् ।) तुह पडिइदिं विण किं अण्णं पुळवशि। गच्छ मुलिहा, का इअं बिहीशिआ ।

तव प्रतिकृतिं विना किमन्यत् पश्यसि । गच्छ मूर्ख, केयं विभीषेका ।

(राजसः निष्क्रान्तः । )