अर्थानर्थान्तरे बुद्धिर्निश्चिताऽपि न शोभते ॥ [१]घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ४० ॥
न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत् ॥ लङ्घनं च समुद्रस्य कथं नु [२]न वृथा भवेत् ॥ ४१ ॥
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ॥ भवेद्व्यर्थमिदं कार्यंं रावणानर्थमिच्छतः ॥ ४२ ॥
न हि शक्यं क्वचित्स्थातुमविज्ञातेन राक्षसैः ॥ अपि राक्षसरूपेण किमुतान्येन केनचित् ॥ ४३ ॥
वायुरप्यत्र [३]न ज्ञातश्चरेदिति मतिर्मम ॥ न [४]ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥ ४४ ॥
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ॥ विनाशमुपयास्यामि भर्तुरर्थश्च [५]हीयते ॥ ४५ ॥
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ॥ [६]लङ्कामधिपतिष्यामि राघवस्यार्थसिद्धये ॥ ४६ ॥
रावणस्य पुरीं [७]रात्रौ प्रविश्य सुदुरासदाम् ॥ [८]विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥ ४७ ॥
इति [९]संचिन्त्य हनुमान्सूर्यस्यास्तमयं [१०]कपिः ॥ आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥ ४८ ॥
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः ॥ वृषदंशक[११]मात्रः सन्बभूवाद्भुतदर्शनः ॥ ४९ ॥
प्रदोषकाले हनुमांस्तूर्ण[१२]मुत्प्लुत्य वीर्यवान् ॥ प्रविवेश पुरीं रम्यां [१३]सुविभक्तमहापथाम् ॥ ५० ॥
प्रासादमालाविततां स्तम्भैः [१४]काञ्चनराजतैः ॥ शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥ ५१ ॥
[१५]सप्तभूमाष्टभूमैश्च स ददर्श महापुरीम् ॥ [१६]तलैः स्फटिकसंकीर्णैः कार्तस्वर[१७]विभूषितैः ॥ ५२ ॥
दोषः स्यादित्याह---भूताश्चेति ॥ भूताश्चार्थाः सम्यगुपायप्रयोगान्निष्पन्नप्राया अप्यर्थाः । विक्लबं अधीरं अविमृश्यकारिणं । दूतमासाद्य देशकालविरोधितास्सन्तः । सूर्योदये तमो यथा तम इव तद्दूतस्याविमृश्यकारित्वेन सद्य एव विपद्यन्ते । नश्यन्तीत्यर्थः ॥ ३९ ॥ न केवलं कार्यहानिः किन्तु स्वाम्यादीनां बुद्धिशून्यतापि स्यादित्याह---अर्थेति ॥ अत्रापि विक्लबं दूतमासाद्येत्यनुवर्तते । अर्थानर्थान्तरे अर्थानर्थयोः प्रयोजनसाधनयोः कार्याकार्ययोः । अन्तरे विषये । निश्चिता राज्ञा सचिवैश्च निर्णीता । बुद्धिः । विक्लबं दूतमासाद्य न शोभते अनर्थकारिणी भवतीत्यर्थः । इदमेव समर्थयते---घातयन्तीति ॥ ४० ॥ प्रागुक्दोषाः स्वस्मिन्कथं न स्युरिति चिन्तयति---न विनश्येदिति ॥ कार्यं रामकार्यं । कथं केनोपायेन न विनश्येत् । किमद्यापराह्ण एव लङ्काप्रवेष्टव्या उत रात्रौ । किमनेनैव महता रूपेण प्रवेष्टव्या उत ह्रस्वेन |
रूपेणेत्यर्थः । वैक्लब्यं ममापाण्डित्यं कथं न भवेत् ॥ ४१ ॥ अपराह्णे प्रवेशेदोषमाह---मयीति ॥ ४२ ॥ महता रूपेण प्रवेशं निराचष्ट----न हीति ॥ ४३-४४ ॥ स्वेन रूपेण स्वाभाविकमहता रूपेण ॥ ४५ ॥ परिशेषाद्रात्रौ हस्वरूपेणैव प्रवेष्टव्यमित्याह---तदहमिति ॥ ४६-४८ ॥ स्वेन रूपेण वृषदंशकमात्रः बिडालप्रमाणः ॥ ४९ ॥ प्रविवेश प्रवेष्टुमुपक्रान्तः । चतुर्थे सर्गे प्रवेशस्य वक्ष्यमाणत्वात् । लङ्कादर्शनं तु त्रिकूटदर्शनस्थित्या ॥ ५० ॥ काञ्चनराजतैः स्तम्भैः शातकुम्भमयैर्जालैश्च उपलक्षितां । गन्धर्वनगरोपमामिति । गन्धर्वनगरं नाम नानारत्नमयगोपुरप्रासादादियुक्तनगरादिवद्भासमानमभ्रचित्रं तद्वदाश्चर्यावहामित्यर्थः । यथोक्तं "अनेन रत्नाकृति खे विराजते पुरं पताकाध्वजतोरणान्वितम् । यदा तदा हस्तिमनुष्यवाजिनां पिबत्यसृग्भूरि रणे वसुन्धरा" इति ॥ ५१ ॥ सप्तभूमाष्टभूमैश्चेति । भूमशब्देनआसनशयनादियो- |
॥ ३९ ॥ रामानु० अभ्रंलिहत्वातिविचित्रत्वाभ्यांगन्धर्वनगरौपम्यं । स्फटिकसंकीर्णेःकार्तस्वरविभूषितैश्चतलैरुपलक्षितैः सप्तभौमाष्टभौमाः भूमिषुभवन्तीतिभौमानिस्थलानि । सप्त भौमानियेषांतेसप्तभौमाः । एवमष्टभौमाः । सप्तभौमाश्चाष्टभौमाश्वतैः । प्रासादैरितिशेषः । तैरुपलक्षितांपुरींददर्शेतियोजना ॥ ५१-५२ ॥
- ↑ घ. ङ. झ. ट. घातयन्तीह.
- ↑ ख. घ. ङ. झ. ञ. ट. नभवेद्वृथा.
- ↑ ग. ङ. च. छ. झ. ञ. नाज्ञातः.
- ↑ ङ. झ. ट. ह्यत्राविदितं.
- ↑ झ. ञ. ट. हास्यति.
- ↑ क. ख. ग. ङ. च. ज. झ. ट. लङ्कामभि.
- ↑ च. छ. ज. ञ. रम्यां.
- ↑ ङ.---ट. प्रविश्यभवनं.
- ↑ ङ. च. झ. ञ. ट. निश्चित्य.
- ↑ क. च. छ. ज. हरिः.
- ↑ क. ङ. झ. ञ. ट. मात्रोथ.
- ↑ क. घ. च.---ट. मुत्पत्य.
- ↑ ङ. च. छ. ञ. ट. प्रविभक्तं.
- ↑ ङ. झ. ञ. ट. काञ्चनसंनिभैः.
- ↑ झ. सप्तभौमाष्टभौमैश्च.
- ↑ ङ.---ट. स्थलैः.
- ↑ च. छ. ज. ञ. परिष्कृतैः.