पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ॥ त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥ १५१ ॥
एवमुक्ता तु सा देवी [१]दैवतैरभिसत्कृता ॥ समुद्रमध्ये [२]सुरसा बिभ्रती राक्षसं वपुः ॥ १५२ ॥
विकृतं च विरूपं च सर्वस्य च भयावहम् ॥ प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ १५३ ॥
मम भक्ष्यः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ॥ अहं त्वां भक्षयिष्यामि [३]प्रविशेदं ममाननम् ॥ १५४ ॥
[[४]वरं एष पुरा दत्तो मम धात्रेति सत्वरा ॥ व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः] ॥ १५५ ॥
एवमुक्तः सुरसया [५]प्राञ्जलिर्वानरर्षभः ॥ प्रहृष्टवदनः श्रीमा[६]निदं वचनमब्रवीत् ॥ १५६ ॥
रामो [७]दाशरथिर्नाम प्रविष्टो दण्डकावनम् ॥ लक्ष्मणेन सह भ्रात्रा [८]वैदेह्या [९]चापि भार्यया ॥ १५७ ॥
[१०]अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ॥ [११]तस्य सीता हृता भार्या रावणेन [१२]यशस्विनी ॥ १५८ ॥
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ कर्तुमर्हसि रामस्य साह्यं विषयवासिनी ॥ १५९ ॥
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ १६० ॥
एवमुक्ता हनुमता सुरसा कामरूपिणी ॥ अब्रवी[१३]न्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ १६१ ॥
तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ॥ बलं जिज्ञास[१४]माना वै नागमाता हनूमतः ॥ १६२ ॥


ष्यतीत्यस्माकं भये सतीत्यर्थः ॥ १४४-१५७ ॥ अन्यत्कार्यविषक्तस्य मारीचमृगग्रहणव्यासक्तस्य ॥ १५८ ॥ विषयवासिनी रामराज्यवासिनी ॥ १५९-१६० ॥ नातिवर्तेन्मां ममाननमप्रविश्य न गच्छेत् । अतिवर्तेदित्यत्र परस्मैपदमार्ष । अत्र इतिकरणं द्रष्टव्यं । "अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम" इत्यस्यानन्तरं "तद्दृष्ट्वा व्यादितं वक्त्रं वायुपुत्रः सुबुद्धिमान्" इत्यादिश्लोकाद्रष्टव्याः । मध्ये तं प्रयान्तमित्यादयः केचन श्लोकाः प्रक्षिप्ताः असङ्गताश्च । शतयोजनायतत्वे वानरैर्लङ्कावासिभिश्च ज्ञातः स्यादिति विरोधात् । त इमे प्रक्षिप्तश्लोकाः ॥ "तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् । बलं जिज्ञासमाना वै नागमाता हनूमतः । प्रविश्य वदनं मेद्य गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥

व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः । एवमुक्तः सुरसया कुद्धो वानरपुङ्गवः ॥ अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे । इत्युक्त्वा सुरसां कुद्धो दशयोजनमायतः ॥ दशयोजनविस्तारो बभूव हनुमांस्तदा । तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् ॥ चकार सुरसा चास्यं विंशद्योजनमायतम् । हनूमांस्तु ततः कुद्धस्त्रिंशद्योजनमायतः । चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् । बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः । चकार सुरसा वक्त्रं षष्टियोजनमायतम् । तथैव हनुमान्वीरस्सप्ततीयोजनोच्छ्रितः ॥ चकार सुरसा वक्त्रमशीतीयोजनोच्छ्रितम् । हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः । चकार सुरसा वक्त्रं शतयोजनमायतं" इति । प्रकृतं विलिख्यते---तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् । सुसं-


अथवा 'यथावाचानिशादिशा' इत्यादिवत्स्पृक्छब्दस्यहलन्तत्वाट्टााबन्ततामाश्रित्यनभसःस्पृशायस्यतदिति ॥ १५० ॥ ति० बलंज्ञानबलमुपायबलंच । पराक्रमंचज्ञातुमिच्छामहे । तदेवविवृणोति---त्वामितिभयस्यचभयावहमितिपाठेसर्वलोकभयस्यापीत्यर्थः ॥ स० बलंशारीरं । मैनाकाविश्रमेणैवज्ञातत्वाद्भूयइत्युक्तं । इच्छामहेइच्छामः । केनचिदुपायेनत्वांविजेष्यतिवाकिंवाविषादंदैन्यंगमिष्यतीतिविचारयामः । यद्वाबलं तुभ्यमस्मद्दत्तवरबलं अस्यहनुमतःपराक्रमंचज्ञातुमिच्छामः । यद्युपायेनत्वांविजेष्यतितर्हितत्पराक्रमोविज्ञातः । यदिविषादंगमिष्यतिदास्मद्वरबलंविज्ञातंभवेदिति ॥ १५१ ॥ शि० अन्यकार्यविषक्तस्यदेवादिकार्यसाधनासक्तस्य ॥ १५८ ॥ ती० विषयवासिनि रामराज्यवासिनि । त्रैलोक्यनाथत्वाद्रामस्येतिभावः ॥ १५९ ॥

  1. ख. दैवतैश्चापि. घ. देवैस्तैरभि. च. छ. ज. देवैरपिच.
  2. क. सहसा.
  3. क. प्रविशख.
  4. ग. ङ.---ट. पाठेषुअयंश्लोकोदृश्यते.
  5. ग. छ. ज. ञ. प्राञ्जलिःपवनात्मजः.
  6. ख. श्रीमान्सुरसांवाक्यमब्रवीत्.
  7. क. ख. दाशरथिः श्रीमान्.
  8. च. छ. ज. ञ. सीतया.
  9. चैव. ट. सह.
  10. ङ.---ञ. अस्यकार्य.
  11. ग. ततःसीता. घ. तस्यभार्याहृतादेवी.
  12. क. तपस्विनी.
  13. ग. न्नातिवर्तेथाः. च. छ. ज. न्नातिवर्तेत.
  14. ङ.---ट. मानासा.