पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४६३ तं विना केकयीपुत्रं भरतं धर्मचारिणम् । न मे स्नानं बहुमतं वस्त्राण्याभरणानि इंत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् । अयोध्यामागतो वृष पन्थाः परमदुर्गमः ॥ ७ ॥ एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः । अझ त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥८॥ पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् । मम भ्रातुः कुबेरस्य ‘वणेनाहतं बलात् ॥ ९ ॥ हृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम् ॥ वदथं पालितं चैततिष्ठत्यतुलविक्रम ॥ १० ॥ तदिदं मेघसंकाशं विमानमिह तिष्ठति । तेने यास्यसि यानेन त्वमयोध्यां गर्तज्वरः ॥ ११ ॥ अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ॥ वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ॥ १२ ॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ॥१३॥ प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ॥ सक्रियां विहितां तावदृहाण त्वं मयोद्यताम् ॥१४॥ प्रणयाद्धहुमानाच्च सौहृदेन च राघव ॥ प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ १५ ॥ एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् । रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ।। १६ ।। जितोऽहं त्वया सौम्य साचिव्येन परन्तप ॥ सर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ॥ १७॥ न खरवेत्तन्न कुर्यां ते वचनं राक्षसेश्वर ॥ तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ॥ १८ ॥ भार्थमित्यर्थः। सत्यसंश्रयः । ‘चतुर्दशे हि संपूर्ण | णापहृतमित्यत्राह-आहृतं निर्जित्येति । तर्हि कुबेराय वर्षेहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां हि प्रबे- | समागताय तत्किमर्थं न दत्तमित्यत्राह-त्वदर्थ इति ॥ क्ष्यामि हुताशनं»इति कृतप्रतिज्ञः ॥ ५ ॥ तं विना | त्वदर्थे त्वद्गमनार्थे । पालितमिति । न दत्तमित्यर्थः । स्नानोपकरणं विना । स्नानं कथं कार्यं । केकयीपुत्रं | यद्वा त्वदर्थे त्वत्पूजार्थमेव. । मेघसंकाशमिति वेगे मध्यमाम्बा तस्मिन् यहुःखमकरोत् तत्किं मयापि | दृष्टान्तः ॥ ८-११ ॥ नानाकरणे द्वित्रदिनमात्र- कर्तव्यं । भरतं राज्ञा मया च विरहितं राज्यं सम्य- | स्थितिं याचते-अहं त इत्यादिनाचतुःश्लोक्येकान्वया । कृतवन्तं । धर्मचारिणं मद्वियोगेन बहुव्रतपरे तस्मिन् गुणान् भक्त्यादिगुणान् । सर्वकामैः भूषणादिभिः । कथं मया नृतत्यागः कर्तुं युक्त इति भावः । न मे | विहितां मया कृतां । उद्यतां । इतः परं नोद्योगः नानं बहुमतं । प्रथमं में न नमेव नेष्टं कथं तदन- | कार्यः येन विलम्बः स्यात् । किंतु पूर्वमेव समुद्यु- न्तरभावीनि वस्त्रादीनि । ६ । इत एवेति । अनेन क्तामित्यर्थः । निर्बन्धदोषं परिहरति-प्रणयादिति । पथा येनाहमागतस्तेनेत्यर्थः । एष इति हस्तनिर्देश- प्रणयात् मद्वाक्यमवश्यं श्रोष्यतीति विस्रम्भात् । पूर्वकमुच्यते । अयोध्यां आगतः प्राप्तः अयमयोध्या- | बहुमानात् त्वत्कृतळालनात् । सौहृदेन भत्तया । मार्गः। तेन क्षिप्रं तां प्रति गच्छामीत्यर्थः। परमदु- | प्रसादयामि प्रार्थयामि ॥ १२–१५ ॥ उपटण्वताम् गेम अतिदूरत्वादिति भावः ॥ ७ ॥ मागस्य परम- उपश्रुण्वत्सु । भावलक्षणे षष्ठी ॥ १६ ॥ साचिव्येन दुर्गमत्वमात्रं परिहर्तुमाह-एवमुक्तस्त्विति । अह्वा- | साहाय्येन । चेष्टाभिः पौरुषेः । सर्वासनां पूजित मित्यादिसार्धश्लोकत्रयमेकान्वयं ।। किं रावणेन चौरें- । इत्यन्वयः ॥ १७ ॥ न खल्वेतदित्यातिश्लोकद्वयमेका- सूर्योदयोवायस्यतं । सुखप्रबुद्ध मित्यर्थः । जयंपृष्टा जयेतिशब्दमुक्त्वा ॥ ति० लङ्कायांवर्तमानस्यपिपुष्पकस्यात्युन्नतत्वे नबहिःस्थितैरपिदृश्यमानत्वादिदमितिप्रत्यक्षवन्निर्देशः ॥ ११ ॥ स० हेराम प्रीतियुक्तस्यपुरुषस्य शात्रविहितां मयाऽद्यतांकार्य तयाउद्युक्तां सत्क्रियां । मे अव्ययं । मत्तः। गृहाण । मे ममेतिा । नचरामेत्यस्यामन्त्रितत्वेनाविद्यमानवद्भावेनापदत्वेनपदात्प रखाभावात्कथंमइत्यादेशइतिवाच्यं । सर्कियामितिपदापरत्वेनादेशसंभवात् । शि० प्रीतियुक्तस्यमे प्रार्थनयेतिशेषः। मया उद्यतां प्रकुप्तां । विहितां उचितां सत्क्रियांगृहण ॥ १४ [ पा०] १ ज. नवस्त्राभरणानिच. २ ङ. झ. ट. एतस्पश्ययथाक्षिप्रं. ३ ङ, झ. ट. अयोध्यांगच्छतोयेष. ४ ङ. झ. ट. रावणेनबलीयसा. ५ ङ. झ. येन. ६ ज. गतव्यथः . ७ ङ. छ. झ. अ ट. प्रीतियुक्तस्य विहितांससैन्यस्ससुहृद्दणः । सक्रिय राममेतावत् ८ क.-डु. झ. ट. सर्वेषामेवण्वतां, ९ ख, ग, ङ. -ट, खयावीर, १० झ. ट, सौहार्देनपरेणच.