सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०३ ॥ श्रीमद्भविन्दराजीयव्याख्यासमलंकृतम् । ३९१ न जीवन्यास्यते शत्रुस्तव बाणपथं गतः । नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ॥ ५१ ॥ अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ॥ यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥ ५२ ॥ यदि वधमिच्छसि रावणस्य संख्ये यदि च कृतां त्वमिहेच्छसि प्रतिज्ञाम् ॥ यदि तव रांजवरात्मजाभिलाषः कुरु च वचो मम शीघ्रमद्य वीर ॥ ५३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे झुत्तरशततमः सर्गः ॥ १०२ ॥ युत्तरशततमः सरैः ॥ १०३ ॥ रथान्तरारोहणेन पुनस्समरायंसमागच्छतिरावणे इन्द्रेण रामय मातलिसनाथनिजरथश्रेषणम् ॥ १॥ रथस्थाभ्यां रामॅर वणाभ्यामङ्गतयुद्धप्रवर्तनम् ॥ २ ॥ तदा लोकभयावहमहोत्पातप्रादुर्भावः । लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः ॥ संदधे परवीरघ्नो धनुरादाय वीर्यवान् । रावणाय शरान्घोरान्विससर्ज चमूमुखे ॥ १ ॥ अथान्यं रथमाँरुह्य रावणो राक्षसाधिपः ॥ अभ्यद्रवत काकुत्स्थं खर्भानुरिव भास्करम् ॥ २ ॥ दशग्रीवो रथस्थस्तु रामं वनोपमैः शरैः॥ आजघान मॅहाघोरैर्धाराभिरिव तोयदः ॥ ३ ॥ दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः ॥ निर्बिभेद रणे रामो दशग्रीवं समाहितम् ॥ ४ ॥ भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः ॥ न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ॥ ५॥ [ततो देववरः श्रीमाञ्श्रुत्वा तेषां वचोऽमृतम् ॥ आहूय मातलिं शक्रो वचनं चेदमब्रवीत् ॥ ६ ॥ रथेन मम भूयिष्ठं शीतुं याहि रघूत्तमम् ॥ आहूय भूतलं यातः कुरु देवहितं महत् ॥ ७ ॥ इत्युक्तो देवराजेन मातलिर्देवसारथिः । प्रणम्य शिरसा देवं ततो वचनमब्रवीत् ॥ ८ ॥ शीघ्र यास्यामि देवेन्द्र सारथ्यं च करोम्यहम् । ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम् ॥९॥] ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः ॥ तरुणादित्यसंकाशो वैडूर्यमयकूबरः॥ १० ॥ यास्यते यास्यति ॥५१॥कृतकर्मा कृतसंचारः ॥५२॥ | त्यादि ।। १–९ ॥ तत इत्यादिसार्धश्लोकत्रयमेक- कृतां ॥ ५३ ॥ इति श्रीगोविन्दराजविर- | न्वयं । कूबरः युगाधारदारु। “कूबरस्तु युगंधरः निर्गुढां चिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धका- । इत्यमरः । काञ्चनापीडैः काञ्चनालंकारैः । श्वेतम् एडव्याख्याने युत्तरशततमः सर्गः ॥ १०२ ॥ कीर्णकैः श्वेतचामरैः । चामरं तु प्रकीर्णकं’ इत्यमरः । हरिभिः हरितवर्णाः । रुक्मवेणुध्वजः अथेन्द्ररथमारुह्य संग्रामस्त्रिशततमे-लक्ष्मणेने कनकदण्डध्वजः । देवराजरथ इति । य इति शेषः । ११ १ ति० कृतकर्मा अद्यतनकर्तव्यांशेकृतलोकानुग्रहः । यावदस्तंनयातीत्यनेनाश्विनशुक्लप्रतिपयेषावातैतिगम्यते । स० कृतकर्मा- लोककृतकर्मसाक्षी ॥ ५२ ॥ इतियुत्तरशततमःसर्गः ॥ १०२ ॥ स० धनुरादायबाणान्संदधे । चमूमुखेरावणाय तस्य ॥ १ ॥ खर्भानुः राहुः अत्रापिनागोजिभट्रेन ‘‘ अथान्यैरथमास्थाय त्यनेनरावणेनशुकाज्ञयाजयनिमित्तंनिकुंभिलायामारब्धहोमकर्मणोवानरद्वाराहिंसनंपुराणान्तरोक्तमत्रानुसंधेयमितिसूचितमितिवद् ता‘शीघ्रशुक्रान्तिकंययौ”इत्यारभ्य-‘‘प्रविश्यान्तःपुरेवेश्मन्यज्ञदोवेगवत्तरः । समनयत्केशपाशेषंखामन्दोदरीशुभाम् । ” इत्यादि गर्भाकृय-दृढंयन्दनमास्थाय'इत्यन्तमध्यात्मरामायणं संगृहीतमितिज्ञायते । तत्प्रामाण्यसंदिहतेमहान्तइतिनतदुक्तंज्ञापकं । [ पा० ] १ ङ. च. झ. अ. ठ, बाणवशंगतः २ क -इ. झन् स. ट. राजसुताभिलाषआर्यकुरुच. ३ ख . ग. ड. झ. मास्थाय. ४ ङ. च. छ , झट. महाशैलंधाराभिरिव -. ५ ततोदेववरइत्यादयः स्यन्दनोत्तममित्यन्ताःलोकाः ङ, च. छ. झ. . म, ट, पाठेषुश्यन्ते. t