सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ श्रीमद्वाल्मीकिरामायणम् । युद्धकाण्डम् ६ ४ हुतवानुपयातो हि देवैरपि सवासवैः। दुराधर्षो भवत्येव सङ्घामे रावणात्मजः ॥ १४ ॥ तेन मोहयता नूनमेषा माया प्रयोजिता । विघ्नमन्विच्छता तत्र वानराणां पराक्रमे ॥ १५ ॥ ससैन्यास्तत्र गच्छामो यावत्तत्र समाप्यते ॥ पैजेमं नरशार्दूल मिथ्या सन्तापमागतम् ॥ सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ॥ १६ ॥ इह त्वं खस्थहृदयस्तिष्ठ सत्वसमुच्छूितः॥ लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ॥ १७ ॥ एष तं नरशार्दूलो रावणिं निशितैः शरैः । याजयिष्यति तत्कर्म ततो वध्यो भविष्यति ॥ १८॥ तस्यैते निशितास्तीक्ष्णाः पैत्रिपत्राङ्कवाजिनः॥पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ॥१९॥ तें सन्दिश महाबाहो लक्ष्मणं शुभलक्षणम् ॥ राक्षसस्य विनाशाय वजं वङ्गधरो यथा ॥ २० ॥ मनुजवर न कालविप्रकर्षों रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम् । त्वमतिर्युज रिपोर्वधाय वाणीममररिपोर्मथने यथा महेन्द्रः ॥ २१ ॥ समाप्तकर्मा हि स राक्षसाधिपो भवत्यदृश्य समरे सुरासुरैः । युयुत्सता तेन समाप्तकर्मणा भवेत्सुराणामपि संशयो महान् ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥ पञ्चाशीतितमः सर्गः ॥ ८५ ॥ सीताशोकाकुलतयाविभीषणभाषितमनवधारितवतोरामस्यचोदनया पुनर्विभीषणेन तंप्रति इन्द्रजितं प्रति नेिछुभिलायां होमसमाप्तौ सर्वदुर्जयस्वरूपत्रद्वरदानप्रकारस्य ब्रह्मणैवोक्तस्यहोमापरिसमासेस्तद्वधहेतुत्वस्यच निवेदनेन तद्वधायानुजनि योजनप्रार्थना ॥ १ ॥ रामचोदनया लक्ष्मणेनेन्द्रजिद्वधयविभीषणादिभिःसह निकुंभिर्लप्रतिप्रस्थानम् ॥ २ ॥ तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः ॥ नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ १ ॥ मत्वा वचनमितिभावः ।। १३-१४ ॥ अन्विच्छता | अद्य कर्तुं न क्षमः। तत्तस्मात् । त्वं रिपुवधाय वाणी- चिन्तयता ॥ १५ ॥ तत् होमरूपं कर्म ॥ १६ ॥ | मतिमृज । आज्ञापयेत्यर्थः । यथा महेन्द्र इत्यापन्मा सैन्यानुकर्षिभिः सैन्यपालैः ॥ १७ ॥ तत्कर्म होम- नेदृष्टान्तः ॥ २१-२२ ॥ । इति श्रीगोविन्दराजविर- कर्म । णिजन्तत्वाद्विकर्मकत्वं । १८ । एते लक्ष- चिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युङ्का णीयाः। पत्रिपत्राणि पक्षिपक्षाः, तेषामङ्गानि बर्हाणि, एडव्याख्याने चतुरशीतितमः सर्गः ॥ ८४ ॥ तैः वाजिनः वेगवन्तः । १९-२० ॥ यद्यस्मात्का रणात् रिपुनिधनं प्रति कालविप्रकर्षः कालविलम्बः।। अथेन्द्रजिद्वधाय लक्ष्मणनिर्गमनंतस्य तद्वचन" नीतिरुपार्जितेतिसंतोष्टव्यं ॥ १२ ॥ शि० एषलक्ष्मणः रावणिं तत् मायाजनंकहचनरूपंकर्म । याजयिष्यति । ततः तस्मं- द्धेतोः। वध्योभविष्यति । इन्द्रजिदितिशेषः। रावणेःकर्मवंतुकृतपूर्वकट मिल्यत्रेव पूर्वकटरूपकर्माविवक्षयाऽकर्मकस्वेनाविवक्षितकं र्माणोपियथाऽकर्मकर्वेनगृह्यन्ते तथाऽकर्मकस्वेनशब्देन्दुशेखरादौनिरूपितं ॥ १८ ॥ ति० तस्मात्वंरिपोर्वधायलक्ष्मणम तिसृज प्रेषय । यथादिविज रिपुमथनेअमरेन्द्रोवग्नमतिसुज तिसृजतितथेत्यर्थः ॥ २१ ॥ स० प्रेष्यप्रेषणावश्यंभावितासूचनायपुनरुकीकरोति- समाप्त कर्मेति । सुराणामपिसंशयः प्राणसंशयः । पूर्वसुरासुरैरितिप्रकृतत्वात्सुरासुराणांसंशयइतिवाच्यं। तथापिकेचिदेवदेवप क्षिणोसुराएतद्वेष्याः। इतरेवेतरकूटघटिताएवेतिसुराणामित्येवोक्तमितिमन्तव्यं ॥ २२ ॥ इतिचतुरशीतितमःसरैः ॥ ८४ ॥ [ पा०] १ ख. ङ. च. झ. ट. भवत्येष. २ ङ . झ. ट. त्यजैनं. ३ चः ज. कडुपत्रान्नर ४ क. ध. ड. ज.-ट. तत्संदिश. ५ ङ. झ. वैधायवर्जदिविजरिपोर्मथने. क. ज. र्वधायवाणीमसुरपुरोन्मथने. अ. वैधायवजममर.