सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् ॥ मार्गते जाम्बवन्तं स हनुमान्सविभीषणः ॥ १४ ॥ स्खभावजरया युक्तं वृद्धं शरशतैश्चितम् । प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥ १५ ॥ दृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत् । कच्चिदार्यं शरैस्तीक्ष्णैः प्राणा न ध्वंसितास्तव ॥१६ विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः॥ कृच्छादभ्युद्भिरन्वाक्यमिदं वचनमब्रवीत् ॥ १७ ॥ नैर्जतेन्द्र महावीर्य स्खरेण त्वाऽभिलक्षये ॥ पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ १८॥ अञ्जना सुप्रजा येन मातरिश्वा च नैतते ॥ हनुमान्वानरश्रेष्ठः प्राणान्धारयते कचित् ॥ १९ ॥ श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः । आर्यपुत्रावतिक्रम्य कमात्पृच्छसि मारुतिम् ॥२० नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे ॥ आर्य संदर्शितः स्नेहो यथा वायुसुते परः ॥ २१ ॥ विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् ॥ आणु नैर्फतशार्दूल यक्षात्पृच्छामि मारुतिम् ॥२२॥ तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् ॥ हनुमत्युज्झितप्राणे जीवन्तोपि वैयं हताः ॥ २३ ॥ धरते मारुतिस्तात मारुतप्रतिमो यदि । वैश्वानरसमो वीर्यं जीविताशा ततो भवेत् ॥ २४ ॥ ततो वृद्धमुपागम्य नियमेनाभ्यवादयत् । गृह्य जाम्बवतः पादौ हनुमान्मारुतात्मजः । [ ¥हमसि हरिश्रेष्ठः शाधि मां यचिकीर्षितम् ]॥ २५ ॥ श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः। पुनर्जातमिवात्मानं मन्यते सदैपुङ्गवः ॥ २६ ॥ ततोऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् । आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि ॥ २७ ॥ नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा । त्वपराक्रमकालोयं नान्यं पश्यामि कंचन ॥ २८॥ ऋक्षवानरवीराणामनीकानि प्रहर्षय । विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ २९॥ गत्वा परममध्वानमुपर्युपरि सागरम् । हिमवन्तं नगश्रेष्ठं हनुमन्गन्तुमर्हसि ॥ ३० ॥ ततः काञ्चनमत्युचमृषभं पर्वतोत्तमम् ॥ कैलासशिखरं चापि द्रक्ष्यस्यरिनिषादन ॥ ३१ ॥ तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्॥ सर्वोषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ॥ ३२ ॥ तस्य वानरशार्दूल चतस्रो मूर्थीि संभवाः ॥ द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥ ३३ ॥ जिता । ब्रह्मास्त्रेण वा ॥ १३–१६ । वाक्यं वा- | विक्रमपर्याप्तः पर्याप्तविक्रमः। विक्रमपूर्ण इति यावत् क्योपयोगि स्खरं ॥ । १७–१८ ॥ धारयत इत्यत्र | अन्यं पराक्रमितारं ॥ २८-२९॥ परमं दीर्घ । उप- काकुः। किं धारयत इत्यर्थः । । १९ । । श्रुतेत्यादि- | ऍपरिसागरं सागरस्य समीपोपरि प्रदेशे । ‘‘ उपर्य श्लोकद्वयमेकं वाक्यं ॥ २०-२४ ॥ मारु- | ध्यधसः सामीप्ये” इति सामीप्ये द्विर्वचनं । “धिगुप- तामजः हनुमान् वृद्धं जाम्बवन्तं उपागम्य । नियमे | यदिषु त्रिषु द्वितीया’ इति द्वितीया ॥ ३०॥ ऋषभं न श्रोत्रहस्तसंस्पर्शव्यत्यस्तहस्तत्वादिरूपेण सह । । ऋषभाख्यं । पर्वतोत्तमं शिखरमित्यर्थः॥ ३१-३२॥ जाम्बवतः पादौ गृह्य गृहीत्व अभ्यवादयत् । स्वनामो- | तस्येत्यादिश्लोकत्रयमेकान्वयं । ओषधयः ओषधीः । च्चारणपूर्वकं युगपत्पादावगृह्मादित्यर्थः । २५ ॥ वाक्यं । दीपयन्त्यः दीपयन्तीः । व्यत्ययेन द्वितीयार्थे हनुमानहमस्मीत्यभिवादनवाक्यं । तथा व्यथितेन्द्रि- | प्रथमा । मृतं सजीवयतीति मृतसञ्जीवनी । जीव योपि हनुमतो वाक्यं श्रुत्वा त्रयक्षपुङ्गवः जाम्बवान् | नानन्तरं संचारक्षमतायै विशल्यं करोतीति विशल्य आत्मानं पुनर्जातं मन्यते स्मेति संबन्धः ।।२६-२७ ॥ । करणी । विशल्ये कृते त्वचः सन्धानं करोतीति स मेवैतदितिभावः ॥ १३ ॥ ति० मार्गते विशिष्येत्यर्थः । तस्यबहुइचादुपायप्रश्नार्थमितिभावः ॥ १४ ॥ स० अवश्यंस्नेहेनपान गिंसंप्याह-नेति । हेआर्य तथाकिंनदर्शितः । पूर्वंलक्ष्मणेनसहरामस्यनिर्देशादेकसत्स्वेपिद्वयंनास्तीतिप्रतीत्यारामानतिक्रमणेपि [ पा० ] १ ङ. झ. ट. विद्धगात्रः२ ङ. झ. ट. सुव्रत३ ङ. झ. ट. मृतावयं. ४ इदमथं ज, पाठेदृश्यते.