६४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ शापिताऽसि मम प्राणैर्निवर्तख जयेन च ॥ अहं जित्वा निवर्तिष्ये तैमहं भ्रातरं रणे ॥ १० ॥ तं तु तारा परिष्वज्य वालिनं प्रियवादिनी । चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥११॥ ततः खस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी ॥ अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ १२ ॥ प्रविष्टायां तु तारायां सह स्त्रीभिः खमालयम् ॥ नैगरान्निर्ययौ कुद्धो महासर्प इव श्वसन् ॥ १३ ॥ सै निःश्वस्य महातेजा वाली परमरोषणः । सर्वतश्चारयन्दृष्टि शत्रुदर्शनकाङ्कया ॥ १४ ॥ स ददर्श ततः श्रीमान्सुग्रीवं हेमपिङ्गलम् ॥ सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ १५ ॥ सं तं दृष्टा महावीर्य सुग्रीवं पर्यवस्थितम् । गाढं परिदधे वासो वाली पैरमरोषणः ॥ १६ ॥ स वाली गाढसंवीतो मुष्टिमुंद्यम्य वीर्यवान् । सुग्रीवमेवाभिमुखो ययौ योढुं कृतक्षणः ॥ १७ ॥ श्लिष्टमुटिं समुद्यम्य संरब्धतरमागतः । सुग्रीवोपि तमुद्दिश्य वालिनं हेममालिनम् ॥ १८ ॥ तं वाली क्रोधताम्राक्षः सुग्रीवं रंणपण्डितम् ॥ आपतन्तं महावेगमिदं वचनमब्रवीत् ।। १९ ।। एष मुष्टिर्मया बद्धो गाढः सन्निहिताङ्गुलिः ॥ मैया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ २० ॥ एवमुक्तस्तु सुग्रीवः कुद्धो वालिनमब्रवीत् ॥ तैवैव चाहरन्प्राणान्मुष्टिः पततु मूर्धनि ।। २१ ।। ताडितस्तेन संकुद्धः संमभिक्रम्य वेगितैः ॥ अभवच्छोणितोद्धारी 'सोत्पीड इव पर्वतः ॥ २२ ॥ सुग्रीवेण तु "निःसङ्गं सालमुत्पाट्य तेजसा । गात्रेष्वभिहतो वाली वत्रेणेव महागिरिः ॥ २३ ॥ ष्यतीति परस्मैपद्मार्ष । सहायत्वं बुद्धिसाहाय्यं | पर्यवस्थितं समीपे अवस्थितं ।। १६ । कृतक्षण ॥ ९-१० । दक्षिणा स्वस्मिन्परमिश्च तुल्यहिता |कृतोत्सवः । लब्धावसरो वा । * निव्र्यापारस्थितौ ॥ ११ ॥ मन्नवत् स्वस्त्ययनमत्रवत् । मश्रश्ध वैदि- | कालविशेषोत्सवयोःक्षणः? इत्यमरः ।॥ १७-२० ।। कादन्य इति ज्ञेयः ।। १२-१३ । चारयन् प्रस्थित |पततु मूर्धनीत्यनन्तरमितिकरणंद्रष्टव्यं ॥ २१ ॥ तेन इति शेषः ॥ १४ ॥ सुसंवीतं वाससा सुषु परिवीतं। | वालिना ताडितः । अतएव संक्रुद्धः । वेगितः संजा अवष्टब्धं युयुत्सया भूमिमाक्रम्य स्थितं ।। १५ । । तवेगः । पुनः प्रहारायेतिशेषः । अत्रसुग्रीवइत्यध्या ण्यसंबन्धेनखबलवत्वादिजनितगर्वविशिष्टं । मे आयस्तं प्रवृतिं । नसहिष्यति । एतेनतस्यमद्वशवर्तिखंनभविष्यतीतिसूचितं ॥ ९ ॥ रामानु० जवेनेतिपाठः । जवेन मनोजवेन । यद्वा जयेनेतिपाठः । जयाशिषेत्यर्थः । चोवधारणे ॥ ती० अर्हजित्वाअर्हनि वर्तिष्यइत्यहंशब्दद्वयस्यनिर्वाहः ॥ ति० जनेन खपरिवारजनेनालं । जित्वा जयमात्रकृखा । निवर्तिष्ये नतुवधमित्यर्थः । अहंजित्वेतिपाठस्त्वसांप्रदायिकः ॥ स० तं भ्रातरं सुप्रीवं । अलंजित्वानिवर्तिष्ये । अहंजित्वेतिपाठे तमहमित्येकंपदं । “तमं तुतमसासमं ?” इत्युक्तेः तमं हन्तीतितमहस्तसूर्यावतारं । बाहुलकाः ॥ १० ॥ शि० तं खोक्तखीकाराभाववन्तै वालिनं ॥ ११ ॥ ति० मन्त्रवित् खस्त्ययनमत्रवेत्री । देवांशत्वाद्वेदनं ॥ १२ ॥ शि० कृतक्षणः प्रकटितयुद्धोत्सवः ॥ १७ ॥ शि० सुनियताङ्गुलिः सुनियताः यथोचितंनिवेशिताअङ्गुलयोयस्मिन्सएषमहान्मुष्टिः ॥ २० ॥ ती० तेन वालिना । सोत्पीडइव सनिईरइव । समतिक्रम्य धीरसमयमितिशेषः । तथाचोक्तं-“धीरंप्रवर्ततेपूर्वधिकर्तातदनन्तरम् । समयोऽयंद्वन्द्वयुद्धे इति ॥ वेगितः संजातचलनः ॥ २२ ॥ ति० निश्शङ्क शोणितोद्भारजदुःखसंबन्धरहितंयथातथाऽभिहतोवालीसागरेनौरिववि [ पा० ] १ क. ग. ड. च. छ. झ. अ. ट. जनेनच. २ ड. छ. झ. अ. ट. अलंजित्वा. ३ ख. तमलं. ४ झ. मन्त्रवित्. ५ क. ख. घ. ड. छ.-ट. नगर्यानिर्ययौ. ६ ख. समुत्पत्य . ७ ड-ट. महारोषो. क .-घ. महावेगो. ८ घ. परममर्षणः ङ.-ट. परमवेगवान्. , ९ छ. झ. ट. तसदृष्टामहाबाहु क. ड. च. ज. अ. तसदृष्टामहाबा . ग. तंसदृष्टामहावीर्य १० ङ. ज. अ. समुपस्थितं. ११ छ. झ. ट. परमकोपनः. घ. परममर्षणः. ड. ज. अ. समरदुर्मदः. १२ ड. च.ज. मुद्यम्यदक्षिणं. १३ घ. ड. कृिष्टमुष्टिं. च. छ. झ. अ. ट. श्लिष्टंमुष्टि, १४ क. ख. घ.-ट. समुद्दिश्य. १५ क. घ .-ट ताम्राक्षं. १६ छ. झ. ट. रणकोविदं. घ. च. ज. ज. रणकर्कशं. १७ छ. झ. ट. र्महान्बद्धो. १८ क. ड. छ. झ. ट सुनियताङ्गुलिः. १९ ख. सतुवेगविमुक्तस्तु. २० छ .-ट. तवचैषहरन्. क. ख. ग. तवचैवहरन्. २१ ख. समतिक्रम्य ड. च. ज. अ. समभिदुल्य. २२ ग. घ. छ. झ. ट. वेगतः. २३ छ. झ. ट. सापीडइव. २४ क. ग. सुग्रीवेणापि. २५ छ झ. अ. ट. निश्शङ्क
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/६८
दिखावट