पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४९ एवमुक्त्वा तु सुग्रीवो रामं रक्तान्र्तलोचनम्। ध्यात्वा मुहूर्त काकुत्स्थं पुनैरेव वचोऽब्रवीत् ॥७५ ॥ ३शूरश्च शूरघाती च मख्यातबलपौरुषः । बलवान्वानरो वाली संयुगेष्वपराजितः ॥ ७६ ।। दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि ॥ यानि संचिन्त्य भीतोऽहमृश्यमूकं समाश्रितः ॥७७॥ तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् । विचिन्तयन्न मुञ्चामि ऋश्यमूकर्महं त्विमम् ॥ ७८ ॥ उद्विग्रः शैङ्कितश्चापि विचरामि महावने । अनुरतैः सहामायैर्हनुमत्प्रमुखैर्वरैः ॥ ७९ ।। उपलब्ध च मे श्लाध्यं सन्मित्रं मित्रवत्सल । त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥ ८० ॥ किंतु तस्य बलज्ञोऽहं दुभ्रतुर्बलशालिनः ॥ अप्रत्यक्षं तु मे वीर्य समरे तव राघव ॥ ८१ ॥ न खल्वहं त्वां तुलये नावमन्ये न भीषये ॥ कर्मभिस्तस्य भीमैस्तु कातर्य जनितं मम ।। ८२ ॥ कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः ॥ सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥ ८३ ॥ [ स्निग्धानां प्रीतियुक्तानां सुहृदां सुहृदं प्रति । कातरं हृदयं राम प्रत्ययं नाधिगच्छति ।। ८४ ।। यदि बाणेन भेत्ता त्वं सालान्सप्ताद्य राघव ॥वालिनं समरे हन्तुं समर्थः स्यात्ततो भवान् ।। ८५ ।।] तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः । मितपूर्वमथो रामः प्रत्युवाच हैरिं प्रभुः ॥ ८६ ॥ यदि न प्रत्ययोस्मासु विक्रमे तव वानर । प्रत्ययं सैमरे श्लाध्यमहमुत्पादयामि ते ।। ८७ ।। एवमुक्त्वा तु सुग्रीवं सन्त्वं लक्ष्मणपूर्वजः । राघवो दुन्दुभेः कायं पादाङ्गुष्ठन लीलया । तोलंयित्वा महाबाहुश्चिक्षेप दशयोजनम् ॥ ८ ॥ असुरस्य तर्नु शुष्कं पादाङ्गुष्ठन वीर्यवान् । क्षितं दृष्टा ततः कायं सुग्रीवः पुनरब्रवीत् ।। ८९ ॥

  • केिष्कु :स्याद्वटोहस्तश्चतुर्विशतिरङ्गुला: । चतुर्ह - | भस्मच्छन्नमनलमिवस्थितं । तेपरं तेजः कामं अतेि

स्तोधनुर्दण्डोधनुर्धन्वन्तरंयुगं ? इंतिवैजयन्ती । एवं |शयेन सूचयन्ति । अथापि मे कातयै . जनितमिति सुग्रीवस्तमुवाचेति पूर्वेणान्वयः ।। ७२-७४ ॥ एव- |पूर्वेणान्वयः ॥ ८३-८६ । विक्रमे विषये । प्रत्ययं मविश्वासकरणे सुहृदुर्मनायेतेत्यालोच्य यथा रामः संतुष्यति तथावदति एवमुक्त्वेत्यादिना ॥विश्वासं । समरे विषये ॥ ८७ । सान्त्वमित्यनेन ७५-७८ उद्विग्रः भीतः ॥ ७९-८२ । वाणी एकरूपंवचनं । प्रत्ययप्रश्रेन सुग्रीवस्य दुःखितत्वं द्योत्यते । पादाङ्गु प्रमाणं बुद्धिः । धैर्य अचञ्चलता । आकृतिर्वेषश्च । ष्ठन अनुद्धतेन । तोलयित्वा चालयित्वा ॥८८॥ तर्नु तरसा बलेन । प्रक्षिपेदपिचेत् तदापि रामस्यविक्रमंदृष्ट्रा वालिनंहर्तमन्यइतिसंबन्धः ।। ७३-७४ ॥: ति० ध्याखा रामवीर्य स्याप्रत्यक्षत्वाद्रामेणवालिवधः शक्योनवेतिसंचिन्त्य ॥ ७५ ॥ अतएवशूरमानी शूरकर्तृकसत्कारवान् । बलवान् शि० शूरः प्रशस्तसेनाविशिष्टः । वाली अस्तीतिशेषः ॥ ७६ ॥ ति० वाणी वालिवधविषया । प्रमाणं विश्वसनीया । यतः धैर्य अकात येणतृणीकृत्यवादः । आकृतिः अनुभवसिद्धोदिव्यविग्रहः । एते परंतेजः सकलजगत्संहारकंतेजः । कामं अतिशयेन । सूचय न्ति सूचयतः । भस्मच्छन्नानलोपमयागुप्तावस्थितिमहाशक्तिमत्त्वंसूचितं ॥ ८३ ॥ शि० दुन्दुभेःकायं पादाङ्गुष्ठनतोलयित्वा शुष्कांतर्नु पादाङ्गुष्ठनलीलयादशयोजनंचिक्षेप । कर्मणः करणस्यचपुनरुपादानमुभयत्रशाब्दान्वयविवक्षया ॥ ८८-८९ ॥ [ पा०] १ छ. झ. लोचनः. २ क. पुनरेवाब्रवीद्वचः. ३ छ. झ. ट. शरश्वश्रमानीच. क. ख. ड. च. अ. शूरश्चासुर घातीच . ४ छ. झ. ट. मृश्यमूकमुपाश्रितः. ५ ख. चिन्तयन्नविमुञ्चामि. ६ ख. ग. ड. च. ज .-ट. . घ. महंगिरिं ममुंत्वहं ७ क.-ट. शङ्कितश्चाहं. ८ ग. मिहाश्रितः. ९ च. छ. झ. . ट. भीमैश्व. १० क. ख. रामभवद्वाणी. ११ इदंश्लोकद्वयं क. ड. च. ज. पाठेषुदृश्यते. १२ ड. छ.-ट. हरिंप्रति. क. गिरिंप्रभुः. १३ ख. ग. ड. . १४ ड. छ. झ. अ समरश्लाघ्यं ट. सान्वयेंलक्ष्मणाग्रजः. १५ क. ड. अ. तोलयन्. च. ज. लोलयन. १६ क. ड.'च. ज. अ. पुनश्चलीलयारामविक्षेप १७ क. ख. ड.-ट. शुरुकां. १८ क. पुनः. १९ क. झ. सुग्रीवोराममब्रवीत्। वा. रा. १२६