पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ पादाभ्यां पीडितस्तेन महाशैलो महात्मनः ॥ रँराज सिंहाभिहतो महान्मत्त इव द्विपः ॥ ४५ ॥ मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोचयः ॥ वित्रस्त मृगमातङ्गः पंकस्थित महाद्रुमः ॥ ४६॥ नागगन्धर्वमिथुनैः पानसंसर्गकर्कशैः ॥ उत्पतद्भिव विहगैर्विद्याधरगणैरपि ।। ४७ ॥ त्यज्यमानमहासानु: संनिलीन महोरगः || चलशृङ्गशिलोद्धातस्तदाभूत्स महागिरिः ॥ ४८ ॥ निःश्वसद्भिस्तदार्तेस्तु भुजङ्गैरनिःसृतैः ॥ सपताक इवाभाति स तदा धरणीधरः ॥ ४९ ।। ऋषिमिस्त्रास संभ्रान्तैस्त्यज्यमानः शिलोच्चयः ॥ सीदन्महति कान्तारे सार्थहीन इवाध्वगः ॥ ५० ॥ स वेगवान्वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता | मैनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ॥ ५१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्त्रिकायां संहितायां किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥ इति किष्किन्धाकाण्डः समाप्तः ॥ ४ ॥ पानसंसर्गकर्कशैः पानसंसर्गदृढैः । “कर्कशं कठिनं | न्दराजविरचिते श्रीमद्रामायणभूषणे मुता क्रूरं कठोरं निष्ठुरं दृढं " इत्यमरः । पानप्रवृत्तौ किष्किन्धाकाण्डव्याख्याने सप्तषष्टितमः सर्ग ॥ ६७ ॥ दृढाभिनिवेशैरित्यर्थः ॥ ४७ ॥ उद्धातः समूहः ॥४८—४९॥ सार्थहीनः । अभूदिति शेषः ॥ ५० ॥ बेगसमाहितात्मा वेगविषये समर्पितमनाः । मनः समाधाय मनः समाहितं कृत्वा ॥५१॥ इति श्रीगोवि- इत्थं शठारिगुरुवर्यपदारविन्दसेवारसाधिगतसर्व- रहस्यबोधः । गोविन्दराजविबुधः प्रमुदे बुधानां कैष्किन्धकाण्डविषयां विततान टीकाम् ॥ १ ॥ ति० ररास स्ववर्तिप्राणिशब्देनेतिशेषः ॥ ४५ ॥ स० पानेन संसर्गे परस्पररतौ कर्कशैः आसक्तैः ॥ ति० पानेसंसर्गेचकर्कशैः अव्यासक्तैः । गन्धर्वाणांतथास्वंच स्वभावः ॥ ४७ ॥ शि० धरणीधरः समहेन्द्र निश्वसद्भिः भीत्यानिश्वासंप्राप्नुवद्भिः । अतएवा- धनिस्सृतैः कथमिदंजात मितिदर्शनायनिस्सारितोर्ध्व भागः | भुजगैः सपताकः पताकाभिस्सहितइवाभाति ॥ ४९ ॥ ती० सार्थ- हीनः सहायहीनः । अध्वगः पथिकइव | अभूदितिशेषः ॥ ५० ॥ इतिसप्तषष्टितमः सर्गः ॥ ६७ ॥ 3 [ पा० ] १ ङ.ट. बाहुभ्यां. २ क. ग. ङ. —ट. महात्मना. ३. क. ङ. झ. टं. ररास. ४ क. ख. ग. ङ.-ज. ञ. महामत्तइव. ५ ख. ङ. च. ज. झ. ज. नानागन्धर्व. ६ क. च. ट. उत्पतद्भिर्विश्च ७ क ख स्कन्धलीनमहोरग: ८ ख. निष्पतद्भिस्तदातैस्तु. ग. ङ.. - ट. निश्वसद्भिस्तदातैस्तु. ९ क आसीन्महति १० ख. पवनात्मजःकपिः ११ क. ततः. १२ ङ. ज. हनूमान्. KOVE POGONIA BA हुँदं किष्किन्धाकाण्डम् कुंभघोणस्थेन टी. आर्. कृष्णाचार्येण मुंबय्यां निर्णयसागरमुद्रायो मुद्रापितम् । शकाउदा: १८३४ सन १९९२.