सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ न ह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः ॥ तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् ॥ २९ ॥ स हि प्रसादे चात्यर्थ कोपे च हरिरीश्वरः ॥ अतीत्य तस्य संदेशं विनाशो गमने भवेत् ॥ ३० ॥ तैद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ॥ तद्भवानेव दृष्टार्थ: संचिन्तयितुमर्हति ॥ ३१ ॥ सोऽङ्गदेन तेंदा वीरः प्रत्युक्तः वर्षभः ॥ जांबवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥ ३२ ॥ अँस्य ते वीर कार्यस्य न किंचित्परिहीयते ॥ एष संचोदयाम्येनं यः कार्य साधयिष्यति ॥ ३३ ॥ ततः प्रतीतं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम् ॥ संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव || ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥ षट्षष्टितमः सर्गः ॥ ६६ ॥ जांबवता हनुमन्तंप्रति तस्यवायोरञ्जनायांसंभवप्रकारनिरूपणेनसह हनुमन्नामलाभस्य ब्रह्मादिभ्योवरला भस्यचनिरूप- णेन तत्प्रभावप्रशंसनपूर्वकं कपिकुलविपदपनोदनाय जलवितरणचोदना ॥ १ ॥ अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् || जांबवान्समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ॥ १ ॥ वीर वानरलोकस्य सर्वशास्त्रविशारद || तूष्णीमेकान्तमाश्रित्य हनुमकिन जल्पसि ॥ २ ॥ हनुमन्हरिराजस्य सुग्रीवस्य समो ह्यसि || रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥ ३ ॥ अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ॥ गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम् ॥ ४ ॥ बहुशो हि मया दृष्टः सागरे स महाबलः ॥ भुजगानुरन्पक्षी महावेगो महायशाः ॥ ५ ॥ अनेकेत्यादि ।॥ १-३ | अरिष्टनेमिनः काश्यपस्य । नकारान्तत्वमा ॥ ४-५ ॥ ति० यतोभवान्दृष्टार्थः बुद्धिमत्त्वाचिरवृद्धत्वाच अपरोक्षीकृतसमस्तकृत्याकृत्यतत्वार्थइस्यर्थः ॥ ३१ ॥ ति० एकान्तमाश्रित्येति । यूथाद्वहिःक्वचिदितिशेषः ॥ ३४ ॥ इतिपञ्चषष्टितमः सर्गः ॥ ६५ ॥ प्रतीतं प्रख्यातं ॥ ३४ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- ण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ ६५ ॥ सि० वीरवानरेति । वानरलोकस्यवीरेत्यन्वयः । निर्धारणेषष्ठी । यद्वा हेवीरवानर लोकस्यकृत्यमुद्दिश्य किंजल्पसीत्यन्वयः ॥ २ ॥ स० सुग्रीवस्यसमोसि । इतिसंमतमितिशेषः । नकेवलंममतत्समइतिसंमतं । किंतु रामलक्ष्मणयोश्चापीतिसमुच्चयः । रामस्योत्तमत्वेन लक्ष्मणस्याधमत्वेनात्युक्तिनैच्योक्तिप्रसक्तिनैवंव्याख्यान इतिमन्तव्यं । सुग्रीवस्यसमइति राजवेनबहुमानार्थमुक्तिः। स्तुतिसमयत्वाद्रामलक्ष्मणयोश्चापि समइत्युक्तिर्युक्तेतिवा ॥ ३॥ स० अरिष्टनेमिनः अरिष्टनेमे: कश्यपस्य । यद्यप्यरिष्टनेमिशब्दः प्रथमाष्टकषष्ठाध्यायषोडशवर्गीयप्रथमर्चद्वितीया " स्वस्तिनस्तार्क्ष्योऽरिष्टनेमिः " इति तथाऽष्टमाष्टकाष्टमाध्यायषट्त्रिंशत्प्रथमर्च- तृतीयपादे “अरिष्टनेमिंटतनाजमाशुं” इतिगरुड एवायंशब्दः श्रुतः । व्याख्यातचैतदृग्द्वयं तथापरैः तथापि गरुडेतार्क्ष्यतार्क्ष्यपुत्रश- ब्दवदयं पितापुत्रयोरुभयोरपि वाचकइति कश्यपस्येत्युक्तिः संभवति ॥ यद्वा अरिष्टोऽहिंसितश्चासौनेमःप्रकाशश्च सोस्यास्तीत्यरिष्ट- नेमी कश्यपस्तस्य । अतइन् । नकर्मधारयादितिसमाहितंप्राक् | " नेमः कीलेऽवधौगर्तेप्रकाशे " इति विश्वः ॥ ४ ॥ ति० महा- बलइति । एकत्र बलंशारीरं परत्राऽऽन्तर मितिभेदः ॥ स० महाबलः महत्बलं उड्डीन मितियावत् । यस्यसतथेत्यन्यतरस्यार्थः । तेन पुनरुक्तिरिव शारीरान्तरत्वाश्रयणंचनेतिज्ञेयं । महाबलः महारूपवान्महास्थौल्यवान्वा । " बलंचन्द्रे र सेरू पेस्थे मनिस्थौल्यसै- [ पा० ] १ छ. झ ञ ट नपश्ये. २ च. ज. कोपेपिचहरीश्वरः ३ ङ. च. ज. ज. तत्तदा झ. ट. तत्तथा. ४ क. ग. —च. ज. म. तथा. ५ घ ङ च ज झ ञ. नुत्तमं ६ ङ. - ट. तस्य. ७ ङ. छ. झ ञ ट परिहास्य से. ८ क. प्रवीरं, ९ ख.स.ट. त्रविदांवर १० ख. तूर्णमेकान्त ११ क. ग. च. ज. ज. भुजङ्गानू, १२ ङ. - ट महाबाहुर्महाबलः.