श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् || कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ॥ ११ ॥ अश्वमेधसहस्रस्य वाजपेयायुतस्य च ॥ लभते श्रवणादेव सर्गस्यैकस्य मानवः ॥ १२ ॥ प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ॥ नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि || गतानि तेन लोकेसिन्येन रामायणं श्रुतम् ॥ १३ ॥ हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति ॥ यश्च रामायणं लोके शृणोति सदृशावुभौ ॥ १४ ॥ सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् || सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ॥१५॥ आदिकाव्यमिदं त्वार्षे पुरा वाल्मीकिना कृतम् ॥ यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ॥ १६॥ पुत्रदाराश्च वर्धन्ते संपदः सन्ततिस्तथा ॥ सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ॥ २६८ गायत्र्याथ स्वरूपं तद्रामायणमनुत्तमम् ॥ १७ ॥ अपुत्रो लभते पुत्रमधनो लभते धनम् ॥ सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ १८ ॥ यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह || भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ॥ १९ ॥ चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति ॥ श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ॥ २० ॥ यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् || सोसुक्षये विष्णुलोकं गच्छत्येव न संशयः ॥ २१ ॥ पिता पितामहस्तस्य तथैव प्रपितामहः ॥ तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ॥ २२ ॥ चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु || तसाद्यनवता नित्यं श्रोतव्यं परमं सदा ॥ २३ ॥ शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा ॥ स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ २४ ॥ एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ॥ अव्याहरत विसन्धं बलं विष्णोः प्रवर्धताम् ॥ २५ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्त्रिकायां संहितायामुत्तरकाण्डे एकादशोत्तरशततमः सर्गः ॥ १११ ।। इति उत्तरकाण्डः समाप्तः ॥ ७ ॥ सदा पठतिस्मेत्यर्थः । अत्र यकारो गायत्र्यक्षरं तेन | णभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने गायत्री विवरणं रामायणमिति सूचितम् ॥ १०- एकादशोत्तरशततमः सर्गः ॥ १११ ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- इतिपूर्वेभरतोत्याविरुद्धंच | तथा — भरतश्चापिशत्रुघ्नस्तयोर्दाराउभेशुभे ॥ राघवस्यानुगमने निश्चितार्थाः समाययुः | राघव- स्तुचतुर्बाहुरभूत्तस्य कराब्जयोः । उभौभरतशत्रुघ्नौशङ्खचक्रौबभूवतुः' इतिपाद्मविरुद्धं चेयन्ये ॥१०॥ ति० सभविष्यं भगवद्याना- नन्तरंभगवदयोध्यावृत्तान्तकथनसहितं । सहोत्तरं एतावदेतदाख्यानं' इत्यतः प्राक्तनोत्तरकाण्डसहितं । प्रचेतसः पुत्रोवाल्मीकिः 'एतद्रामायणाख्यानंकृतवान् । प्रचेतसः पुत्रइत्यक्षराधिक्यमार्षे । तद्ब्रह्माहिरण्यगर्भोप्यन्वमन्यत | सत्यशब्दतयावेदोपवृंहणतया 'सर्वार्थसाधकतयाचाङ्गीकृतवानितिसर्वेष्टसिद्धिः ॥ ११ ॥ इत्येकादशोत्तरशततमः सर्गः ॥ १११ ॥ श्रीसीतारामचन्द्राय नमः ॥ New Delhi LOGICAL इदं उत्तरकाण्डं कुंभघोणस्थेन टी. आर्. कृष्णाचार्येण मुंबय्यां निर्णयसागरमुद्रायत्रे मुद्रपितम् । शकाव्दा: १८३५ सन १९९४. LIBRARY
पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२७२
दिखावट