पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ९५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २३७ सन्निबद्धं हि श्लोकानां चतुर्विंशत्सहस्रकम् || उपाख्यानशतं चैव भार्गवेण तपखिना ॥ २६ ॥ आदिप्रभृति वै राजन्पश्च सर्गशतानि च ॥ काण्डानि षट् कृतानीह सोत्तराणि महात्मना || कृतानि गुरुणाऽस्माकमृषिणा चरितं तव ॥ २७ ॥ प्रतिष्ठाऽऽजीवितं यावत्तावत्सर्वस्य वर्तते ॥ २८ ॥ यदि बुद्धिः कृता राजञ्श्रवणाय महारथ ॥ कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ॥ २९ ॥ वाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् || प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ॥ ३० ॥ रामोपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ॥ श्रुत्वा तद्गीतिमाधुर्ये कर्मशालामुपागमत् ॥ ३१ ॥ शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् ॥ तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्नवतितमः सर्गः ॥ ९४ ॥ पञ्चनवतितमः सर्गः ॥ ९५ ॥ बहुकालं सभामध्ये कुशलवगीतरामायणं श्रुतवतारामेण रामायणवचनादेव कुशलवयोः सीतासुतत्वविज्ञानम् ॥ १ ॥ तथा प्रत्ययोत्पादनेन लोकापवादापनोदनपूर्वकं निजशुद्धिप्रख्यापनाय शपथकरणे सीताभावावगमाय वाल्मीकिंमति दूतप्रेषणम् ॥ २ ॥ दूतमुखाच्छपथकरणे सीताङ्गीकरणश्रवणहष्टेनरामेण सकलसभास्तारान्प्रति परेधुः प्रभाते प्रवर्तिष्यमा- •णसीताशपथदर्शन प्रार्थनापूर्वकं तेषां विसर्जनम् ॥ ३ ॥ रामो बहून्यहान्येवं तद्गीतं परमं शुभम् || शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ १ ॥ तसिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ॥ तस्याः परिषदो मध्ये रामो वचनमब्रवीत् || दूताञ्शुद्ध समाचारानाहूयात्ममनीषया ॥ २ ॥ वाल्मीकिः । यज्ञसंविधं | बिन्दुश्छन्दसः । यज्ञवा- | मिति पदं । यावत् काव्यनायकस्य जीवितं तावत्तस्य टसविदेशं प्राप्तः ॥ २५ ॥ चतुर्विंशतिसाहस्रमि- यत् शुभाशुभं तस्य सर्वस्यात्र प्रतिष्ठानिबन्धनमस्ति त्यादिकम स्पष्टीकरिष्यामः । चतुर्विंशतिसाहस्रं ॥ २८ ॥ हे राजन्यदि तस्य सर्वस्य श्रवणाय बुद्धिः श्लोकानां सन्निबन्धनमिति च पाठ: । उपाख्यान - कृता तदा कर्मान्तरे क्षणीभूतः सुखीभूतः शृणु शतं इलोपाख्यानान्तं | भार्गवेण भृगुवंश्येन | वाल्मी ॥ २९ – ३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- केरेव भार्गवत्वं प्राचेतसत्वं चाविरुद्धमिति दर्शितं द्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्या- “तपस्स्वाध्यायनिरतं” इति श्लोकव्याख्याने ||२६|| ख्याने चतुर्णवतितमः सर्गः ॥ ९४ ॥ पञ्च सर्गशतानीति षट्काण्डाभिप्रायेण | चकारादु- त्तरकाण्डसर्गसंख्यासमुच्चयः ॥ २७ ॥ आजीवित- गीते तु गीत एव । नतु ततः पूर्वं कस्यचिन्मुखा- ति० यानिसोत्तराणिषट्काण्डानीहकृतानि | तत्सर्गसंख्यापञ्चशतानीत्युपलभ्यमानसर्गसंख्याधिक्यंतुकेषांचिदेकैकस्य द्विसर्गत्वकर- णेनलेखकप्रमादात्पञ्चसर्गशतानी तिषकाण्डसंख्या । चकारादुत्तरकाण्ड सर्गसंख्यासमुच्चयइतिकश्चित् ॥ २७ ॥ स० कर्मशालां यज्ञवाटं ॥ ३१ ॥ स० ताललयः घृतकांस्यताललयः | तन्त्रीलयः तन्त्रिकालयः | कुशीलवाभ्यांपरिगीयमानंशुश्राव ॥ ३२ ॥ इतिचतुर्नवतितमः सर्गः ॥ ९४ ॥ स० तद्गीतं समस्तंव्यस्तं च ॥ १ ॥ स० तस्मिन्गीते तन्मुखगीतेरामायणरूपे | सीताऽसूतै तौ सुता वितिविज्ञाय लोकलोचन- [ पा० ] १ क. ख. ग. परमाद्भुतं.