पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८७ यस्माच्वं भोजनं राजन्ममैतदातुमिच्छसि || तस्माद्भोजनमेतत्ते भविष्यति न संशयः ॥ २८ ॥ ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ॥ वसिष्ठं शत्रुमारेभे भार्या चैनमवारयत् ॥ २९ ॥ राजन्प्रभुर्यतोमाकं वसिष्ठो भगवानृषिः || प्रतिशतुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ॥ ३० ॥ ततः क्रोधमयं तोयं तेजोबलसमन्वितम् || व्यसर्जयत धर्मात्मा ततः पादौ सिपेच च ॥ ३१ ॥ तेनास्य राज्ञस्तौ पादौ तदा कल्मापतां गतौ ॥ तदाप्रभृति राजाऽसौ सौदासः सुमहायशाः || कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ॥ ३२ ॥ स राजा सह पत्या वै प्रणिपत्य मुहुर्मुहुः ॥ पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ ३३ ॥ तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् || पुनः प्रोवाच राजानं वसिष्ठः पुरुपर्पभम् ॥ ३४ ॥ मया रोपपरीतेन यदिदं व्याहृतं वचः ॥ नैतच्छक्यं वृथा कर्तु प्रदास्यामि च ते वरम् ॥ ३५ ॥ कालो द्वादशवर्षाणि शापस्यान्तो भविष्यति ॥ मत्प्रसादाच्च राजेन्द्र व्यतीतं न परिष्यसि ॥ ३६ ॥ एवं स राजा तं शापमुपभुज्यारिमृदनः || प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥ ३७॥ तस्य कल्मापपादस्य यज्ञस्यायतनं शुभम् || आश्रमस्य समीपेऽस्य यन्मां पृच्छसि राघव ॥ ३८ ॥ तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् || विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ३९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चपष्टितमः सर्गः ॥ ६५ ॥ पढ़या ।। २६-३२ ॥ ब्रह्मरूपिणा वसिष्ठरूपधरेण | समागत्य सर्वथा गुरुर्न प्रतिशापार्ह इति प्रतिषिद्ध- यदुक्तं तद्वचो वसिष्टं प्रति प्रोवाच ॥ ३३ ॥ तत् पार्थिवेन्द्रस्य प्रणिपातवाक्यं रक्षोविकृतं च श्रुत्वा । रक्षसाधिकृतमिति पाठे अधिकृतं राजद्वेमाश्रित्य कृतं ।। ३४–३५ ।। व्यतीतं न स्मरिष्यसि । मया हठा- च्छतं न मनसि कुर्वित्यर्थः ॥ ३६ – ३७ ॥ कल्मा- पपाद इति तस्य नामान्तरं । शापानन्तरं मित्रसहः विरचिते श्रीमद्रामायणभूपणे मणिमुकुटाख्याने उत्त- कुपितः सन् वसिष्ठं शप्तुं जलमाददे । स्वयमेव मां रकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ ६५ ॥ नियुज्य कथं पुनः स्वयमेव कुप्यतीति । तदा तद्भार्या वती । ततो राजा तद्वचः साध्विति मत्वा शापाय गृहीतं जलं स्वपादे प्रक्षिप्तवान् | तदाप्रभृति कल्मा- नीलरूपता ॥ ३८-३९॥ इति श्रीगोविन्दराज- पपादनामाभवत् । कल्मापं कोपगृहीतशापजलकृत- स० एतत्तेभोजनंभविष्यति मानुषमांसाशिराक्षसजन्मेतिभावः ॥ २८ ॥ स० प्रभुः कुलगुरुः ॥ ३० ॥ स० पादौ खपादौ ॥ ३१ ॥ स० कल्मापतां कृष्णवर्णतां । क्रोधमन्त्रणतप्तत्वादां ॥ ३२ ॥ पार्थिवेन्द्रस्य विषयेरक्षसा स्ववेषधारिणा । विकृतं विरुद्धंकृतं ॥ ३४ ॥ स० द्वादशवर्षाणि कालः तदात्मागतश्चेच्छापस्यान्तः पूर्ववदवस्थानंभविष्यति । अतीतंनस्मरिष्यसि राक्षसत्वावस्थायामतीतंराजत्वं पुनाराजत्वप्रात्यनन्तरंरक्षस्त्वं चनस्मरिष्यसि । अत्रैवादिपर्वोक्ता शक्तिशापब्राह्मणशापादिकथा अनुसंधेया । अत्रराजाज्ञांविनासूदरूपिणारक्षसामानुषामिषंवसिष्ठायदत्तमिति । भारतेतु - तस्थौचद्विजसत्तमइति । सद्विजो ब्रह्मजान्यः । तथैव ‘ततोर्धरात्रउत्थायसूदमानाय्यसत्वरम् | उवाचराजासंस्मृत्यब्राह्मणस्यप्रतिश्रुतम् । गच्छायुष्मन्वनोद्देशेव्राह्मणो मांप्रतीक्षते । अन्नार्थीत्वंतमन्नेनसमांसेनोपपादय । एवमुक्तस्ततः सूदः सोनासाद्यामिषंक्कचित् । निवेदयामासतदानेतितस्मैव्यथा न्वितः । राजातुरक्षसाविष्टः सूदमाहगतव्यथः । अप्येनंनरमांसेनभोजयेतिपुनःपुनः । इतिराज्ञआज्ञयैवमानुषमांसदानोक्ते- रतद्दानएतादृशशापदानानौचित्याच्च कल्पभेदेनार्थव्यवस्था कल्पनीया | एकरक्षस्त्वविषयएवबहुशापः ॥ ३६ ॥ स० पौरो- हित्याद्विशापोपिदत्तइत्याहप्रतिभइति ॥ ३७ ॥ स० महर्षि वाल्मीकिं ॥ ३९ ॥ इतिपञ्चषष्टितमः सर्गः ॥ ६५ ॥