सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २४ ] श्रीमदोविन्दराजीयव्याख्यासमलंकृतम् । ८५ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ।। २३ ।। इति राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः । जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः ।। २४ ।। आविष्टं तेजसा रामं संग्रामशिरसि स्थितम् ।। दृष्टा सर्वाणि भूतानि भयाद्विव्यथिरे तदा ॥ २५ ॥ रूपमप्रतिमं तस्य रामस्याविष्टकर्मणः । बभूव रूपं कुद्धस्य रुद्रस्येव पिनाकिनः ।। २६ ।। इति संभाष्यमाणे तु देवगन्धर्वचारणैः ॥ ततो गम्भीरनिदं घोरवमयुधध्वजम् ।। अनीकं यातुधानानां समन्तात्प्रैलयदृश्यत ॥ २७ ॥ सिंहनादं विसृजतामन्योन्यमभिगर्जताम् ॥ चापानि विस्फारयतां जुम्भतां चाप्यभीक्ष्णशः ॥२८॥ विघुष्टखनानां च दुन्दुभींश्चापि निन्नताम् । तेषां सुतुमुलः शब्दः पूरयामास तद्वनम् ॥ २९ ॥ तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः ।। दुवुर्यत्र निःशब्दं पृष्ठतो नै व्यलोकयन् ।। ३० ।। तैत्वनीकं महावेगं रीमं समुपसर्पत ॥ धृतनानाप्रहरणं गम्भीरं सागरोपमम् ।। ३१ ।। रौमोपि चारयंश्चक्षुः सर्वतो रणपण्डितः ।। ददर्श खरसैन्यं तैद्युद्धाभिमुखर्मुत्थितम् ॥ ३२ ॥ वितत्य च धनुभमं तूण्योश्चोद्धृत्य सायकान् ।। क्रोधमाहारयत्तीत्रं वधार्थ सर्वरक्षसाम् ॥ ३३ ॥ २३ । राजर्षय: देवत्वं प्राप्ता । यद्वा वानप्रस्थी- |२९ ॥ श्वापदा: हिंस्रा व्याघ्राद्य । यत्र निःशब्दं भूताः । सगणाः सपरिकराः ॥ २४ ॥ ग्रामशिरसि | शब्दाभाव । “ अव्ययं विभक्ति -' इत्यादिना स युद्धाग्रे ।। २५ । रामस्य रूपं रुद्रस्य रूपमेिव बभूव | अव्ययीभावः । तं देशं दुद्रुवुरित्यन्वयः । पृष्ठत ।। २६ । निह्नोंदः शब्दः । वर्म कवचं । अनीकं सेना | पश्चाद्भार्ग ।। ३० । समुपसर्पत समुपासर्पत् । २७ ॥ अन्योन्यमभिगर्जतां अहमेव शत्रं हनिष्या-|गम्भीरं इतरदुष्प्रवेशं । ३१ मीति जल्पतामित्यर्थः विस्फारयतां ज्याशब्दं कुर्वतां । | ॥३२॥ वितत्य किञ्चिद्वाणविसर्पणं कृत्वेत्यर्थः । “विततं अभीक्ष्णशः भृशं । ज़म्भतां जूम्भमाणानां मदेनो- | संहेितस्येषोः किंचिदेव विसर्पणं ?” इति वैजयन्ती । द्वच्छतामित्यर्थः । विप्रघुष्टस्वनानां घोषो गुञ्जनाख्य- | तूण्योः पृष्टपार्श्वद्वयबद्धयोः । आहारयदित्यनेन करु ध्वनिविशेषः । “घोषो गुञ्जनमञ्जने ? इति वैजय -|णामूर्तिरप्याश्रितकण्टकोद्धारणायक्रोधमारोपयामासे न्ती । भावे निष्ठा । तद्वपस्वनवतामित्यर्थः ।। - ) ति गम्यते । भीमं धनुरुदृत्य तूण्योः शरांश्चोद्धृत्य २८ वृष्टेरनंततःप्रजाः ?' इति ॥ २१ ॥ ति० धर्मात्मा अच्छद्मयोधीत्यर्थः ॥ २३ ॥ ति० तेजसा वैष्णवेनक्षात्रेण । एतेनसहज खभावोभगवतोग्राह्यएव । क्षात्रस्तुखेच्छयाकार्यायभगवताखीक्रियतइतिसूचितं । भयात् अनुमितरामपरिश्रमजनितभीतेः ॥२५॥ ती० रूपमिति । जगत्संहरणार्थमुद्युक्तस्यप्रलयकालरुद्रस्यरूपंयद्वत् तद्वत्खरादिवधार्थमुद्युक्तस्यरामस्यरूपमपिबभूवेत्यर्थः । त दुक्तंस्कान्दे –“ रुद्रतेजोविलसितंदृष्टारामकलेबरम् । शङ्खचकंचश्शूलंचपिनाकंखेटमेवच । खट्टांघण्टांचडमरुंबाणपाशाङ्कशंतथा । चापंवज्रचखङ्गंचपरशुत्रासकारणम् । जयश्रियंचगङ्गांचददृशुस्सिद्धचारणा ।' इति । शि० नकिष्टं नकस्मैचित्खेदप्रदं कर्म व्यापारोयस्यतस्य ॥ ति० रुद्रस्यरूपमिव रामस्यरूपमप्रतिमं ॥ २६ ॥ स० समन्तात् सम्यगन्तमुद्दिश्येतिल्यब्लोपनिमित्तापश्च म्यपि ॥ २७ ॥ ति० अन्योन्यमभिगच्छतां एवंयुद्धकर्तव्यमितिचवबोधनार्थमितिशेषः । देहममताराहित्येनयुद्धप्रवृत्तये मादकद्र व्यखीकारजंजूभणं ॥ २८ ॥ शि० विप्रहृष्टखनानां अतिहर्षसूचकशब्दवतां ॥ २९ ॥ ति० सर्वरक्षसांवधार्थ सर्वरक्षेोवधद्वार खादस्ययुद्धस्येतिभाव ॥ ३३ ॥ इतिचतुर्विशस्सर्गः ॥ २४ [ पा० ] १ ट. तं दृष्ट्रासर्वभूतानि. २ तत्र. ३ ड. झ. ट. महात्मनः. ४ क. सर्षिसंधैश्चचारणैः. ५ ड. झ. ट. चर्मायुध ६ ड. झ. ट. त्प्रत्यपद्यत. ७ ड. च. ज ट. वीरालापान्विसृजतां. क. छ. ज. विरावांस्तान्विसृजतां. ८ ड. झ. ट. मन्यो न्यमभिगच्छतां. ख. मन्योन्यंभयगर्जनां. ९ ग. घ. च. ज. ट. विप्रहृष्ट. १० क. ख. दुन्दुभीनांचनिःखनैः. ११ क.-ट सुविपुलः. १२ क.-ट. नावलोकयन्. १३ ड .-ट. तञ्चानीकं. ग. गलानीकं. १४ ड. च. छ. झ. अ. ट. रामंसमनुवर्तत . क. ख. राघवंसमसर्पत. ज. रामंसमनुवर्तते . १५ ख. रामोविचारयन्. ग. घ. च. छ. ज. ज. ट. रामोपिचालयन् १६ घ. तद्यद्धायसमुपस्थितं. ड. झ. तद्युद्धायाभिमुखोगतः. १७ क. ख. ग. च. छ. ज. ज. ट. मुद्यतं. १८ ख. विनम्यच. क सज्यंकृत्वा. १९ झ. तूण्याश्चोदृत्यसायकं. क. ख. ड. च. , तूण्याश्चोद्दत्य. घ. तूणाचोद्धृत्य उक्त