सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ श्रीमद्वाल्मीकिरामायणम् । षोडशः सर्गः ॥ १६ ॥ [ आरण्यकाण्डम् ३ हेमन्तागमेप्रातस्स्रानाथसीतयासहकदाचनगोदावरीगच्छन्तंराममनुगच्छतालक्ष्मणेनहेमन्तवर्णनम् ॥ १ ॥ लक्ष्मणेन भरतवृत्तान्तप्रस्तावपूर्वकंकैकेय्युपालंभेरामेणतत्प्रतिषेधपूर्वकंभरतप्रशंसनम् ॥ २ ॥ तथासीतालक्ष्मणाभ्यांसहस्रानपूर्वकं सन्ध्योपासनाद्याचरणम् ॥ ३ ॥ वसतस्तस्य तु सुखं राघवस्य महात्मनः ॥ शरद्वयपाये हेमन्त ऋतुरिष्टः प्रवर्तते ॥ १ ॥ स कदाचित्प्रभातायां शर्वयं रघुनन्दनः ॥ प्रययावभिषेकार्थ रम्यां गोदावरी नदीम् ॥ २ ॥ प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् ।। पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत् ॥ ३ ॥ अयं स कालः संप्राप्तः प्रियो यस्ते प्रियंवद । अलङ्कत इवाभाति येन संवत्सरः शुभः ।। ४ ॥ नीहारपरुषो लोकः पृथिवी सस्यशॉलिनी । जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥ ५ ॥ नवाग्रयणपूजाभिरभ्यच्र्य पितृदेवताः ॥ कृताग्रयणकाः काले सन्तो विगतकल्मषाः ।। ६ ।। प्राज्यकामा जनपदाः संपन्नतरगोरसाः ॥ विचरन्ति महीपाला यात्रास्था विजिगीषवः ।। ७ ।। सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् । विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते ॥ ८ ॥ प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च सांप्रतम् । यथार्थनामा सुव्यक्तं हिमवान्हिमवान्गिरिः ॥ ९ ॥ अत्यन्तसुखसंचारा मध्याहे स्पर्शतः सुखाः । दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः ॥१०॥ अथ भाविश्शूर्पणखाद्र्शनाद्यनर्थसूचकतया हेमन्त -| कामोद्रेका । “ प्राज्यमद्भ्रंबहुलंबहु ?' इत्यमरः । वर्णनं प्रस्तौति-वसत इत्यादि । इष्टः तपस्विनां तपः- | जनपदाः जनपदस्थाः । यात्रायां युद्धयात्रायां आस्था साधनायेष्ठः । रामस्य तु खरादिराक्षसवधविजयमू- | येषां ते यात्रास्थाः ।। ७ । अन्तकसेचितां दक्षिणामि लश्शूर्पणखाऽऽगमनहेतुतयेष्टः ।। १ । प्रभातायां विरा- | त्यर्थः । अत्रोत्प्रेक्षालंकारेण दक्षिणा दिक् सतिलकेव मोन्मुखायां ॥ २-३ । येन हेमन्तेन ॥ ४ ॥ |प्रकाशत इत्युत्प्रेक्षा व्यज्यते ।। ८ । प्रकृत्या स्वभा लोको जनः । नीहारेण हिमेन । परुषः परुषत्वक् । |वेन । हिमकोशैः घनीभूतहिमैः । आढ्यः संपूर्णः । सर्वत्र भवतीति शेषः । स्वभावोक्तिरलंकार । “ स्व-|सांप्रतं दक्षिणायने दूरसूर्यः अत एव हिमवान् अधि भावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनं इति | कहिमः । भूमार्थे मतुप् । हिमवान् गिरिः यथार्थ लक्षणात् ।। ५ ॥ काले आग्रयणकर्मानुष्ठानकाले । |नामा भवति सुव्यक्तमित्युत्प्रेक्षाव्यञ्जकं निरुक्तिश्चा आग्रयणं नाम कश्चिद्धविर्यज्ञो नूतनधान्यभोजनस्या - | लंकारः । “निरुक्तियोंगतो नाम्रामन्वर्थत्वप्रकल्पनं ?’ दाववतुष्टयः । तदुक्तमापस्तम्बेन “नानिष्ठाग्रयणेना-|इति लक्षणात् ॥ ९ ॥ मध्याहे स्पर्शतः उष्णस्पर्शत:। हितान्निर्नवस्य धान्यस्याश्रीयाद्रीहीणां यवानां श्या- | सुखाः सुखकराः । अतएव तदानीं अत्यन्तसुखसं माकानामग्रे पाकस्य यजेत ? इति । आग्रयणरूपपू- |चाराः सुभगादित्याः दर्शनयोग्यादित्याः । छायास जाभिः पितृदेवता अभ्यच्र्य कृताग्रयणका: नतु कृता- | लेिलदुर्भगा: दुर्भगच्छायासलिला: । आहिताग्यादि ग्रयणप्रतिनिधय इत्यर्थः ।। ६ । प्राज्यकामाः बहुल- | त्वात्परनिपात: । अतिशीतच्छायासलिला इत्यर्थः । ती० इष्टः कामिनीनां कामिनामिष्टइत्यर्थः ॥ १ ॥ ती० येन हेमन्तेनसुपक्कसस्यादिसंपन्नेन । शुभस्सन्नयंसंवत्सरः अलङ्कतो यद्यपि तथापि प्रियइवाभातिकिमितियोजना । यद्वा । यःहेमन्तकालः तेप्रियः । येनहेमन्तेनसंवत्सरश्शुभस्सन्नल तवातिसुकुमारस्य ि ङ्कतइवभाति । अयंकालस्संप्राप्तइतियोजना ॥ ४ ॥ ती० जलान्यनुपभोग्यानि शैल्यातिशयात्स्रानाद्यर्थमशक्यानि । सुभगः इष्टः ॥ ५ ॥ ती० संपन्नतरगोरसाः बहुलतरगोक्षीराः । जनपदाः भवन्तीतिशेषः ॥ ७ ॥ शि० हिमकोशाढ्यः हिमकोशैः कोशवद्धनीभूतहिमैः आढयः हिमवान्गिरिः सांप्रतंदूरसूर्यस्सन् सुव्यक्तहिमवानिति यथार्थनामाऽभवत् । सूर्यस्यदूरस्थत्वात् [पा० ] १ ग. ड. झ. ल. ट. हस्तस्तु. २ घ. न्भ्रातुः. ख. न्भ्रात्रा. ३ क,-घ. . ज. झ. अ. मालिनी. ४ चवड्रः ज-ज, यात्रार्थे. छ, यात्रार्थे. ५ च. पश्यतः