सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ एवमुक्तः स मुनिना राघवः संयताञ्जलिः । उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ॥ ९ ॥ धन्योस्म्यनुगृहीतोस्मि यस्य मे मुनिपुङ्गवः । गुणैः सभ्रातृभार्यस्य वैरदः परितुष्यति ।। १० ।। किंतु व्यादिश मे देशं सोदकं बहुकाननम् । यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ।। ११ ।। ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तैद्वचः । ध्यात्वा मुहूर्त धर्मात्मा धीरो धीरतरं वचः ॥१२॥ इतो द्वियोजने तात बहुमूलफलोदकः ।। देशो बहुमृगः श्रीमान्पञ्चवट्यभिविश्रुतः ॥ १३ ॥ तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह ।। [वैदेह्या चानया राम वत्स्यसि त्वमरिंदम ।।] रंस्यैसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ।। १४ ।। कालोऽयं गतभूयिष्ठो यः कालस्तव राघव । समयो यो नरेन्द्रेण कृतो दशरथेन ते ।। तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्स्यसि । धन्यते जनको राम स राजा रघुनन्दन । यस्त्वया , ज्येष्ठपुत्रेण ययातिरिव तारितः ।। १६ ।। विदितो ह्येष वृत्तान्तो मम सर्वतवानघ ॥ तपसश्च प्रभावेन स्रोहाद्दशरथस्य च ।। १७ ।। हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया । इह वासं प्रतिज्ञाय मया सह तपोवने ।। १८ ।। [वेसन्तं त्वां जनास्सर्वे ज्ञास्यन्ति रघुनन्दन ।।] अतश्च त्वामहं बूमि गैच्छ पञ्चवटीमिति ॥१९॥ स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते । स देशः श्लाघनीयश्च नातिदूरे च राघव ॥ २० ॥ गोदावर्याः समीपे च मैथिली तत्र रंस्यते । प्राज्यमूलफलचैव नानाद्विजगणायुतः । विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ।। २१ ।। वर्षसहस्राणि दशवर्षशतानि च ।। ८ । संयताञ्ज- |छन्दौ ?' इत्यमरः । खरादिवधसंकल्प इत्यर्थः । लिः बद्धाञ्जलिः ॥९-१०॥ निरतः एकाग्र : ।।११।। | तपसा आलोचनेन तन्मूलत्वद्वचनभङ्गयाचेत्यर्थ । ध्यात्वा भाविकार्योचितदेशं ध्यात्वा । धीरः धीमान् | अलंकृतोयं देशश्रेति ममेह वासे प्रस्तुते किंतु व्यादिश { निश्चितकार्योचितदेशइत्यर्थः । धीरतरं अतिनिश्चितं मे देशमिति त्वदुक्तया चेत्यर्थः । अभिप्रायवेदनका धचः ।। १२.!!-पञ्थ्यानां वंटानां समाहारः पञ्चवः यैमाह-इहँति । यस्मात्त्वदभिप्रायो मया विदित वटीतद्युक्तदेशो लक्षणया पञ्चवटीत्युच्यते । पञ्चवटी- ! त्यभिविश्रुतो देश इत्यन्वयः ।। १३-१६॥ मम - | अतो हेतोः इह तपोवने वासं मया सह प्रतिज्ञाय पेितृ वाक्यपरिपालनप्रकार रःकथं ज्ञात इत्यत्राह-विदित | अनुज्ञाय तदनन्तरमेव त्वं . पञ्चवटीं गच्छेति मेिं इति । तपःप्रभावेन पर्यालोचनकरणे निमित्तमाहः --|ब्रवीमि । अनित्यमागमशासनमिति ईडभावः ।। १८ लेहादिति ॥ १७ ॥ छन्दोभिप्राय । “ अभिप्रायवशौ |–१९ ॥ आयुत: व्याप्तः । विविक्त:विजनः ॥२० शब्दस्य पूर्वनिपातः ॥ ६ ॥ ती० ध्याखेति । भाविकार्यनिश्चयाय ध्यानं । ध्यानेनागामिसीतावियोगरूपं किञ्चिद्विक्षेपं दृष्टापि भाविवाञ्छितरावणादिवधसीतावाप्यादिकार्यसिद्धिदर्शनेन धीरस्सन् तं वचोऽब्रवीत् । ति० ततउवाचेल्यथैततोवाचेति संधि रार्षः ॥ १२ ॥ स० द्वियोजने द्वेयोजने । द्वितीयाद्विवचनमेतत् । इतः प्राप्तः । योजनद्वयमवधीकृत्य विधमानोदेशइतियावत् ॥१३॥ दशरथस्यन्नेहात् कैकेयीविषयदशरथलेहात् । तव सर्वोपिवृत्तान्तः प्रवृत्तइति मम तपसःप्रभावेन विदितइत्यन्वयः । यद्वा ममतपसःप्रभावेन । दशरथस्य तवोपरिपरमन्नेहाच तवदशरथस्यच वृत्तान्तः पितृवाक्यपरिपालनायवनवासवृत्तान्तः दशरथवृ त्तान्तः कैकेयीविषयन्नेहात्वत्प्रेरणारूपः विदितइत्यर्थः । स० सर्वस्तवेतिव्यस्तं समस्तंच । समस्तत्खपक्षे सर्वेः स्तवो यस्यस ॥ १७ ॥ ति० यदिह वासंप्रतिज्ञाय । “ आराधयिष्याम्यत्राहमगस्त्यंतंमहामुनिम् । शेषंचवनवासस्यसौम्यवत्स्याम्यहंप्रभो इत्यनेन ममसमीपे इह मदाश्रमे वासंप्रतिज्ञाय पुनर्माप्रति व्यादिशमेवासमित्येतद्वदसि तन्मूलं ते हृदयस्थः छन्दः अभिप्राय [पा०]१ ग. ड. झ. ट. मुक्तस्तु . २ ड. झ. ट. गुरुर्नः. ३ क -ट. भाषितं . ४ ड. झ. ट. ततोवाचवचःशुभं ५ इदमधे क. च. छ. पुस्तकेषु दृश्यते. ६ ग. ड.-ट. रमख. ७ ग. घ. तदानघ. ८ घ. हार्दात्तू. ९ क. ख. ग. च. छ ज.पुस्तकेषुदृश्यते. १० ग. या.ि ११ ख. पञ्चवटीमितः. १२ च. छ. झ. ल. गणैर्युत