सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ अगस्त्येनैवमुक्तस्तु काकुत्स्थो वाक्यमब्रवीत् । मानिताः म यथान्यायं त्वया पूज्येन पूजिताः ॥४५ शयनासनदानेन भोजनाच्छादनैः शुभैः ।। राज्ञो दशरथस्यैव पुरस्यान्तःपुरे यथा । सुखोषिताः स भगवन्सर्वकामैरुपस्थिताः ॥ ४६ ॥ सुखोपविष्ट रामे तु सहसीते सलक्ष्मणे ॥ स तेन ऋषिसङ्गेन अगस्त्यो वाक्यमब्रवीत् ॥ ४७ ।। कालोऽयं गतभूयिष्ठो यः कालस्तव राघव । समयो यो नरेन्द्रेण कृतो दशरथेन ते ॥ तीणेमतिज्ञः काकुत्स्थ सुखं राम निवत्स्यसि ।। ४८ ।। धन्यस्ते जनको राम स राजा रघुनन्दन । यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः ।। ४९ ।। एवमुक्तस्ततो रामः प्रत्युवाच कृताञ्जलिः ।।'प्रीतः प्रीततरं वाक्यं प्रत्युवाच महायशाः ॥ ५० ॥ धन्योस्म्यनुगृहीतोस्मि यस्य मे मुनिपुङ्गव । प्रीयूमाणस्तु सुप्रीतो नास्ति धन्यतरो मम ।। ५१ ॥ मया न तारितो राजा स्वगुणैरेव तारितः ।। खर्गे दशरथः प्राप्तः खकृतैः पुण्यकर्मभिः ।। ५२ ।। अयं तु देशो निखिलः सर्व एव मंहातपः । अशरण्यः शरण्योऽभूद्यथैव विनिवेशितः।। तथाऽऽख्याह्यथेतत्वेन परं कोत्तूहलं मम ॥ ५३. ।। श्रुत्वा तु वचनं तस्य रामस्यं मधुराक्षरम् । प्रत्युवाच ततो राममगस्त्यो भगवानृषिः ॥ ५४ ॥ शृणु राघव तत्वेन देशस्यास्य यथातथम् ॥ ५५ ॥ दण्डकेन परित्यक्तो ह्ययं देशो महात्मना । भार्गवस्य च शापेन निर्मनुष्यमृगोऽभवत् ॥ ५६ ॥ घृक्षगुल्मलताहीनं तापसैरभिवर्जितम् ॥ कान्तारमभवत्तात घोरं परमदारुणम् । योजनार्धसहस्र तु विन्ध्यपादस्तु दक्षिणः ॥ ५७ ॥ नानुवर्षति पर्जन्यो नानुवाति सुखोऽनिलः ॥ रक्षुःप्रतिभयं घोरमासीत्परमदारुणम् ॥ ५८ ॥ बहून्यब्दसहस्राणि ह्येतदासीदमानुषम् । गन्धवैत्रैषिसंधैश्च देवैश्च परिवर्जितम् ॥ ५९॥ कस्य चित्वथ कालस्य दैवयोगादहं नृप । हिमवच्छिखराद्देशादिह प्राप्तोसि मानद ।। ६० ।। ततो मया समाहूतः पर्जन्यो जलदैः सुह ॥ खच्छन्दवर्षश्च कृतः कंचित्कालमरिन्दम ॥ ६१ ॥ यमस्य चैव चारास्तु बहून्यब्दशतानि वै ॥ तेजसा मृत्युभूताश्च व्याधयश्च निराकृताः ।। ६२ हिमवत्पादजा वृक्षाश्चिन्तिता मनसाऽऽगताः ॥ प्रवृत्ताश्च पुनर्नद्यः फुलुपङ्कजमण्डिताः ।। तटाकानि च रम्याणि सरितश्च सरांसि च ।। ६३ ।। प्रवृद्धवनषण्डं तु स्फीतसस्यवनाकुलम् । अचिरेणाभवद्रम्यं सर्षिसङ्गानुसेवितम् ।। ६४ ।। केवलं त्वभिशापेन तस्यैव रघुनन्दन ।। सोपदुतमिवाप्येतद्राक्षसैरुग्रकर्मभिः ॥ ६५ ॥ यदाप्रभृति चापि त्वं चित्रकूटमुपागतः । तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ।। ऋषीणामभयं वीर दातुमर्हसि मानद ।। ६६ ।। अस्माद्धि कारणाद्राम दण्डकारण्यवासिनाम् ॥ त्राणार्थमिह संप्राप्तस्रातुमर्हति नो भवान् ।। ६७ ॥ . समर्थो ह्यसि काकुत्स्थ त्रैलोक्यस्यापि रक्षुणे ॥ किंपुनर्वीर रक्षांसि द्विजमन्युहतानि वै ।। ६८ ।। अयमिक्ष्वाकुपुत्रेण दण्डुकेन् महाबल ।। देशो निराकृतो राजञ्शापदोषेण राघव ।। ६९ ।। दण्डकारण्यमखिलं दर्शनादेव राघव । शापस्यान्ताय काकुत्स्थ प्राप्तस्त्वमरिमर्दन ।। ७० ।। स त्वं मन्युपरावृत्तैः पितृभिः संनिराकृतम् । तास्य त्वं महाबाहो दण्डकारण्यमद्य वै ॥ ७१ ॥ एवमुक्तस्तदा । रामः प्रत्युवाच महामुनिम्। आश्चर्यमिदमाख्यातं देशस्यास्य यथातथम् ॥ ७२ ॥ एवमुक्तस्तु रामेण महर्षिस्त्विदमब्रवीत् ] ॥ ७३ ।। इत्यार्षे आदिकाव्ये आरण्यकाण्डे द्वादशस्सर्गः ॥ १२ ॥ श्रीमद्रामायणेवाल्मीकीये