सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १९३ कथं ज्ञास्यति तां रामस्तत्रस्थां तामनिन्दिताम् ॥ दुःखं संचिन्तयन्ती सा बहुशः परिदुर्लभा ॥५॥ प्राणयात्रामकुर्वाणा प्राणांस्त्यक्ष्यत्यसंशयम् ॥ स भूयस्संशयो जातः सीतायाः प्राणसंक्षये ॥ ६ ॥ स त्वं शीघ्रमितो गत्वा सीतां पश्य शुभाननाम् । प्रविश्य नगरीं लङ्कां प्रयच्छ हविरुत्तमम् ॥७॥ एवमुक्तोथ देवेन्द्रः पुरीं रावणपालिताम् ॥ आगच्छन्निद्रया सार्ध भगवान्पाकशासनः ॥ ८ ॥ निद्रां चोवाच गच्छ त्वं राक्षसान्संप्रमोहय । सा तथोक्ता मघवता देवी परमहार्षता ॥ देवकार्यार्थसिद्यर्थ मामोहयत राक्षसान् ॥ ९॥ एतस्मिन्नन्तरे देवस्सहस्राक्षः शचीपतिः ॥ आससाद वनस्थां तां वचनं चेदमब्रवीत् ।। १० ।। देवराजोमि भद्र ते इह चासि शुचिसिते । अहं त्वां कार्यसिद्यर्थ राघवस्य महात्मनः ॥ ११ ॥ साहाय्यं कल्पयिष्यामि मा शुचो जनकात्मजे । मत्प्रसादात्समुद्रं स तरिष्यति बलैस्सह ।। १२ ।। मयैवेह च राक्षस्यो मायया मोहिताश्शुभे । तस्मादन्नमिदं सीते हविष्यान्नमहं खकम् ॥ १३ ॥ स त्वां संगृह्य वैदेहि आगतः सह निद्रया । एतदत्स्यसि मद्धस्तान्न त्वां बाधिष्यते शुभे ।। १४ ।। क्षुधा तृषा च रंभोरु वर्षाणामयुतैरपि ॥ एवमुक्ता तु देवेन्द्रमुवाच परिशङ्किता ॥ १५ ॥ कथं जानामि देवेन्द्रं त्वामिहस्थं शचीपतिम् ।। देवलिङ्गानि दृष्टानि रामलक्ष्मणसंनिधौ ॥ १६ ॥ तानि दर्शय देवेन्द्र यदि त्वं देवराट् खयम् । सीताया वचनं श्रुत्वा तथा चक्रे शचीपतिः ॥१७॥ पृथिवीं न पृशत्पन्नद्यामनिमेषेक्षणानि च । अरजोंऽबरधारी च नम्लानकुसुमस्तथा ।। १८ ।। तं ज्ञात्वा लक्षणैः सीता वासवं परिहर्षिता ॥ उवाच वाक्यै रुदती भगवद्राघवं प्रति ।। १९ ।। संह भ्रात्रा महाबाहुर्दिष्टया मे श्रुतिमागतः । यथा मे श्वशुरो राजा यथा च मिथिलाधिपः ।।२० ॥ तथा त्वामद्य पश्यामि सनाथो मे पतिस्त्वया । तवाज्ञया च देवेन्द्र पयोभूतमिदं हविः । अशिष्यामि त्वया दत्तं रघूणां कुलवर्धनम् ।। २१ ॥ इन्द्रहस्तादृहीत्वा तत्पायसं सा शुचिस्मिता ॥ न्यवेदयत भत्रे सा लक्ष्मणाय च मैथिली ।।२२ ।। यदि जीवति मे भर्ता सह भ्रात्रा महाबलः । इदमस्तु ततोर्भक्त्या तदाश्चात्पायसं खयम् ॥२३॥ इतीव तत्प्राश्य हविर्वरानना जहौ क्षुधादुःखसमुन्द्रवं च तम् ।। इन्द्रात्प्रवृत्तिमुपलभ्य जानकी काकुत्स्थयोः प्रीतमना बभूव ।। २४ ।। स चापि शक्रस्त्रिदिवालयं तदा प्रीतो ययौ राघवकार्यसिद्धये ।। आमन्त्र्य सीतां स ततो महात्मा जगाम निद्रासहितः स्वमालयम् ॥ २५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे प्रक्षिप्तः सर्गः । सप्तपञ्चाशः सर्गः ।। ५७ मारीचमारणानन्तरं स्वकण्ठरवानुकारिमारीचकण्ठरवश्रवणाहुर्निमित्तदर्शनाञ्च सीताया विपदाशङ्कया त्वरितमागच्छता रामेण मध्येमार्ग लक्ष्मणदर्शनं ॥ १ ॥ तथा लक्ष्मणंप्रति विजनेसीतात्यागेनागमस्यानौचित्योक्तयोपालंभपूर्वकं दुर्निमि त्तप्रदर्शनेन सीताया राक्षसैर्हरणमारणादिसंभावना ॥ २ ॥ राक्षसं मृगरूपेण चरन्तं कामरूपिणम् । निहत्य रामो मारीचं तूर्ण पथि निवर्तते ।। १ ।। एवमियता ग्रन्थसंदर्भण सीताहरणवृत्तान्तमुपवण्र्य | अथ रामस्य मृगानुसरणकथाशेषं दर्शयितुमारभते स० राक्षसमिति । प्रवेशितायामित्यादिर्मध्ये एक:सर्गः प्रक्षिप्तः कचित्पुस्तकेदृश्यते । सचमूलकोशेष्वदर्शनान्नव्याख्यात [पा०] १ क, च.-ट. न्यवर्तत