सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ खा न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥ तमुवाच ततस्तत्र कुंपिता जनकात्मजा ॥ ४ ॥ सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् । यैस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे ॥ ५ ॥ इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ॥ लोभान्मम कृते नूनं नानुगच्छसि राघवम् ।। ६ व्यसनं ते प्रियं मन्ये लेहो भ्रातरि नास्ति ते । तेन तिष्ठसि विस्रब्धस्तमपश्यन्महाद्युतिम् ॥ ७ ॥ किं हि संशयमापन्ने तस्मिन्निह मया भवेत् । कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः ॥ ८ इति बुवाणां वैदेहीं बाष्पशोकपरिप्लुताम् । अब्रवीलुक्ष्मणस्रस्तां सीतां मृगवधूमिव ॥ ९ ॥ पन्नगासुरगन्धर्वदेवैमानुषराक्षसैः ॥ अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः ॥ १० ॥ देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु ।। राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च ॥ ११ ॥ दानवेषु च घोरेषु न स विद्येत शोभने । यो रामं प्रतियुध्येत समरे वासवोपमम् ॥ १२ ॥ अवध्यः समरे रामो नैवं त्वं वतुमर्हसि । न त्वामस्मिन्वने हातुमुत्सहे राघवं विना ॥ १३ ॥ अनिवार्य बलं तस्य बलैर्बलवतामपि । त्रिभिलॉकैः समुद्युतैः सेश्वरैरपि सामरैः ।। १४ हृदयं निर्तृतं तेऽस्तु संतापस्यज्यतामयम् ॥ आगमिष्यति ते भर्ता शीघ्र हत्वा मृगोत्तमम् ॥१५॥ नै च तस्य खरो व्यत्तं मायया केनचित्कृतः गन्धवेनगरप्रख्या माया सा तस्य रक्षसः ॥१६॥ सामान्यविशेषयोःप्रयोगः करिकलभवत् । इति सी- | त्राह--किं हीति । यो रामः प्रधानं यस्य सः यत्प्र क्ष्मणमुवाचेतेिसंबन्ध शासनं | धानः त्वमिहागत: तस्मिन् रामे । संशयं प्राणसंशयः अप्रमत्तेन ते भाव्यमित्याद्युक्तं ४ ॥ मित्ररूपेणोप- | मापन्ने सति । इहाश्रमपदे तिष्ठन्या मया किं कार्यं लक्षितः रूपेण मित्रसदृशः क्रियया शत्रुतुल्योसीत्यर्थः। | न ८-१२ । एवं उक्तप्रकारं परुष शात्रवक्रियां दर्शयति--यस्त्वमिति ।। ५ । इच्छायां |भाषणं । राघवं विना स्थितां त्वामित्यन्वयः ॥ १३ ॥ हेतुमाह-मत्कृत इति । मत्परिग्रहार्थमित्य समुद्युतैः सन्नाहवद्भिः । सेश्वरैः सेन्द्र १४ दाढ्यय पुनराह-लोभादिति । लोभो मलाभेच्छा |नितं निर्तुःखं ।। १५ । तस्य रामस्य । नायं स्वर ६-७ ॥ त्वद्रक्ष्णं विहाय कथं गमिष्यामीत्य- | अपितु केनचिदन्येन मायया विचित्रशक्तया कृत स्संशयउत्पन्नइतिव्यञ्जितं । तेन तत्रत्रेहातिशयोध्वनित सार्धश्लोकएकान्वयी ॥ ३ ॥ शि० तमुवाचेत्यर्धपृथक् । सौमित्रइ त्याद्यर्धद्वयमेकान्वयि । यद्वा इदमप्यर्धपृथक् । तथाहि भ्रातुर्मित्ररूपेणहेतुना खमपिशत्रुवत् रामशत्रुत्वापन्नराक्षसशत्रुतुल्योसि शत्रुमित्रेपि शत्रुत्वबुद्धेर्लोकेप्रसिद्धत्वादितिात्पर्य । एतेन यदि रामसमीपेत्वंनगमिष्यसि. तर्हि एकाकिनंत्वामवलोक्य तच्छत्रव इहाप्यापतिष्यन्तीतिव्यञ्जिलं । तेनैकत्रैव द्वाभ्यांस्थातव्यमितिध्वनितं ॥ ४ शि० यदिति । यत् यस्माद्धेतोः । विनशी रिपुसू दनः । त्वं अस्यां सहायरहितायांअवस्थायां भ्रातरंरामंनाभिपत्स्यसे तस्माद्धेतोः हेलक्ष्मण मत्कृते मद्रक्षार्थ अन्तं खविनाशं इच्छसि इत्यनुमीयतइतिशेषः । एतेनास्मिन्समये रामसमीपगमनमन्तरा ते महत्यपकीर्तिर्भवितेतिव्यञ्जितं मत्कृते मद्रक्षार्थयो लोभः मयिगते इमांकोरक्षिष्यतीतिवैचित्यं तस्माद्धेतोः राघवंनानुगच्छसिचेत्तर्हि अप्रियंव्यसनं अपवादरूपदुःखं क्षेहोनास्तीतिचाहंमन्ये । स० लोभात् गाध्र्यात् । मत्कृते अहंकृताशिक्षितायेन समत्कृतः तस्मिन्भ्रातरीत्यन्वयः । व्यसनं रामदुःखं ॥ ५-७ ति० तस्मिन् रामे संशयमापन्नसति मयातिष्ठन्त्या खद्रक्षणेनजीवन्त्या । किंकर्तव्यं भवेत् । तदभावे मरणमेवश्रेय अत्रायंध्वनिः-राक्षससंहाररूपप्रधानकार्यकरणायागतस्तव खद्रातुर्वा तस्मिन्कार्ये इहमदवस्थित्यासंशयमप न्ने इहजीवन्यामयाकिंकार्यभवेत् सर्वत्रोत्पत्तिस्थितिसंहारेषु तवभ्रातुरहमेवसहकारिणी । प्रकृतश्धसंहारोत्र मत्स्थिल्या न निर्वर्ततइति ॥ स० संशयं सम्यग्राक्षसहस्तमापन्ने इतिवा । हिसंशयं गतसंशयंयथाभवतितथा तस्मिन् रामे आपत् न । यतो ऽहं ई साक्षाछक्ष्मीः ततो मया आपत् प्राप्ततिशेषः । नभवेत् इतिमानसिकोभावोपिज्ञेय ति० एवंबोधिततत्वोपि मानुष्यनाटनेनलोकव्यवहारानुसारा लक्ष्मणोऽवददित्याह-अब्रवीदिति ॥ ९ ॥ ति० तव खया १५ ॥ ति० दैवतः [पा०] १ ड. झ. ट. क्षुभिता. २ ट. यत्वं. ३ ड. झ. ट, लोभात्तुमत्कृते ४ ख. राम. ५ ख. लक्ष्मण. ६ ड. झ. ट ७ ङ. झ. ट. एवं. ८ ड. झ. ट. समन्वितां. ९ च. देवमानव. ड. ड. झ. ट. देवदानव. १० च-ठ. सेश्वरै स्सामरैरपि. ११ छ, झ. म. ट. त्यज्यतांतव. १२ ग-ट, नस. झ. नकश्चिदपिदैवत ल [ आरण्यकाण्डम्