सर्गः ९२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । न 'दोषेणावगन्तव्या कैकेयी भरत त्वया || रामप्रव्राजनं ह्येतत्सुखोदकं भविष्यति ॥ २९ ॥ देवानां दानवानां च ऋषीणां भावितात्मनाम् || हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ ३० ॥ अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् || आमव्य भरतः सैन्यं युज्यतौमित्यचोदयत् ॥ ३१ ॥ ततो वार्जिरथान्युक्त्वा दिव्यान्हेमपॅरिष्कृतान् || अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः ॥ ३२ ॥ गंजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः ॥ जीता इव धर्मान्ते सघोषाः संप्रतस्थिरे ॥ ३३ ॥ विविधान्यपि यानानि महान्ति च लघूनि च ॥ प्रययुः सुमहार्हाणि पादैरेव पदातयः ॥ ३४ ॥ अथ यानप्रवे कैस्तु कौसल्याप्रमुखाः स्त्रियः || रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा ॥ ३५ ॥ चन्द्रार्कतरुणाभासां नियुक्त शिविकां शुभाम् || आस्थाय प्रययौ श्रीमान्भरतः सपरिच्छदः ॥ ३६॥ सा प्रयाता महासेना गजवाजिरथाकुला || दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ॥ ३७॥ वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः ॥ गङ्गायाः परखेलायां गिरिष्र्ष्वपि नदीषु च ॥ ३८ ॥ सा संग्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपसिङ्गान् ॥ महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ ३९ ॥ ३४५ • इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥ 4 दोषेण दोषवत्तया नावगन्तव्या तस्याः देवप्रेरितत्वा- यानप्रवेकैः यानोत्तमैः । “ प्रवेकानुत्तमोत्तमाः " दित्यभिप्रायः । तत्रहेतुमाह - रामेति । सुखोदकै इत्यमरः ॥ ३५ ॥ चन्द्रार्कतरुणाभासां तरुणचन्द्रा- सुखोत्तरं । अतीतानागतवर्तमानज्ञोमहर्षिर्भाविरावण- र्ककान्ति । नियुक्तां वसिष्ठादिभिराज्ञप्तां । सपरिच्छदः वधादिकंहृदिनिधायदेवादीनांसुखोद र्केभविष्यतीत्युक्त- सपरिवारः ॥ ३६ || सेत्यादिलोकद्वयमेकंवाक्यं । वान् ॥ २९–३० ॥ संसिद्धः लब्धाशीर्वादः । गङ्गायाः दक्षिणवाहिन्याः । परवेलायां पश्चिमभागे । आमत्र्य आपृच्छय । युज्यतां गमनायसंनह्यतामिति स्वसैन्यमचोदयत् ॥ ३१ ॥ वाजिरथान् वाजिनोर- थांश्च । युक्त्वा संनह्य । युक्तानितिपाठे सज्जीकृतान् । प्रयाणार्थी प्रयाणकाङ्क्षी ॥ ३२ ॥ गजकन्या: करे- णवः । हेमकक्ष्याः हेममयबन्धनरज्जव: । सघोषाः पुचवनानिव्यतिक्रम्येतिवाऽन्वयः ॥ ३७–३८ ॥ घण्टाघोषयुक्ताः । पताकिनइत्यत्र “ पुमान्स्त्रिया " | तत्र तत्यर्थः ॥ ३९ ॥ इति श्री गोविन्दराजविरचिते इत्येकशेषः ॥ ३३ ॥ प्रययुरित्यत्रसादिनआरुह्येति श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड- शेष: । यद्वा यानानीतितत्स्थालक्ष्यन्ते । पदातयः व्याख्याने द्विनवतितमः सर्गः ॥ ९२ ॥ पादैरेवययुः । यानैः समययुरितिभावः ॥ ३४ ॥ स्थितेतिशेषः । महासेनावनानिव्यतिक्रम्य गिरिपुन दीषुचविश्रम्येतिशेषः । उत्थितोमेघइव दक्षिणांदिश- मावृत्यप्रयातेतिसंबन्धः । यद्वा महासेनागिरिषुनदी- यामूलंयस्यव्यसनस्य तद्यतोमूलं ॥ २५–२६ ॥ ति० भविष्यदितिशत्रन्तं । जानीहीतिशेषः । एवंदेवादिकृतोऽयं मन्थराद्वाराकै केय्या बुद्धिमोहइतिभावः । अतएव नैषादोषभागितिबोध्यं । देवादीनांसुखदत्वात् । स० दानवानां सतां ॥ ३० ॥ स० संसिद्धः संनद्धः ॥ ३१ ॥ ति० चन्द्रार्कतरुणाभासां तरुणचन्द्रार्कसदृशीं । क्वचिद्भ गेस्फटिका दिनिर्मितां क्वचिद्भागेपद्मरागादिनिर्मितामि- तियावत् ॥ ३६ ॥ ती० गङ्गायाः परवेलायां दक्षिणकूले निविष्टासासेना उत्थितोमेघइवदक्षिणांदिशमावृत्य गिरिष्वपिनदीषुवना- निव्यतिक्रम्यप्रयातेतिसंबन्धः ॥ ३८ ॥ इतिद्विनवतितमस्सर्गः ॥ ९२ ॥ [पा० ] १ ख. ग. दोषेण हिमन्तव्या. २ घ. च. ज. चमहात्मनां. ३ ङ. ट. मितिचाब्रवीत्. ४ ग. रथान्नागान्युक्तान्. ख. च. ज. रथान्युक्तान्दिव्यान्. ५ ङ. ट. भूषितान्. ६ ङ. च. छ. झ ञ ट प्रयाणार्थे. ७ ख. ग. करिण्यच. ८ ग. घ. सचार्क. ९ च. छ. झ ञ ट समाकुला. १० छ. झट. गिरिष्वथनदीष्वपि. ११ क. ङ. ज. झ. ट. द्विपवाजियूथा. १२ च विवासयन्ती १३ क. च. ज. यूथान्. १४ क – छ. झ ञ ट प्रविगाहमाना. वा. रा. ७६
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४९
दिखावट