सर्ग: ९० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । न चैतदिष्टं माता मे यदवोचन्मदन्तरे || नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ १६ ॥ अहं तु तं नरव्याघ्रमुपयातः प्रसादकः ॥ प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ १७ ॥ त्वं मामेवं गतं मत्वा प्रसादं कर्तुमर्हसि || शंस मे भगवत्राम: व संप्रति महीपतिः ॥ १८ ॥ वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्ततः ॥ उवाच तं भरद्वाजः प्रसादाद्भरतं वचः ॥ १९ ॥ त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे || गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ २० ॥ जाने चैतन्मनस्स्थं ते दृढीकरणमस्त्विति ॥ अपृच्छं त्वां तथाऽत्यर्थ कीर्तिं समभिवर्धयन् ॥ २१ ॥ जाने च रामं धर्मज्ञं ससीतं सहलक्ष्मणम् || असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २२ ॥ श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः ॥ एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २३ ॥ ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः ॥ चकार बुद्धिं च तैदा तदाश्रमे निशानिवासाय नराधिपात्मजः ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे नवतितमः सर्गः ॥ १० ॥ ३३३ स्थूणानिखननन्यायेनदृढीकर्तुमपृच्छमित्यर्थः। कीर्ति रामविषयसौभ्रात्रजनितां । समभिवर्धयन् । न्मास्मि । भगवानपि भूतभविष्यद्वर्तमानज्ञोपीत्यर्थः । | जाने योगप्रभावेनेतिशेषः । दृढीकरणमस्त्वित्यपृच्छं । मत्तः मत्सकाशात् । मयिदोषंनाशङ्के नोत्प्रेक्षे | मत्कृ- तोदोषोनास्तीतिसंदेहोपिमेनास्तीत्यर्थः । अभावादिति- भावः । अतोमामेवंनानुशाधि एवंकर्णारुन्तुदंवक्तुंना- र्हसि ॥ १५ ॥ मातृकृतंत्वत्कृतमेवेत्याशङ्कयाह - नेति । मदन्तरे मदसंनिधौ । नाददे नाङ्गीकृतवान- स्मि ॥ १६ ॥ प्रसादकः प्रसादयितुं । " तुमुन्ण्वु- लौक्रियायांक्रियार्थायां इतिण्वुल् ॥ १७ ॥ एवं गतं एवंबुवाप्राप्तं । महीपतिः वर्ततइतिशेषः ॥१८॥ याचितः भरतायप्रसन्नोभवेतिप्रार्थितः । प्रसादादु - वाच_प्रसादंप्राप्योवाच । ल्यब्लोपेपञ्चमी ।। १९ ।। गुरुवृत्तिः ज्येष्ठानुवर्तनं । दमः इन्द्रियनिग्रहः । पीताम्बराख्याने अयोध्याकाण्डव्याख्याने नवतितमः राज्यालोलत्वमितियावत् । साधूनांचानुयायिता सञ्चि- सर्गः ॥ ९० ॥ त्तानुवर्तनं । इत्येतत्रयंत्वयियुक्तमित्यन्वयः ॥ २० ॥ णहेत्वोः क्रियायाः ” इतिहेत्वर्थेशतृप्रत्ययः ॥ २१ ॥ रामंजाने देशविशेषेस्थितंरामंजानइत्यर्थः ॥ २२ ॥ कामंअभीष्टं । कामार्थकोविदः काङ्क्षितार्थप्रदानदक्षेत्य- र्थः ॥ २३ ॥ प्रतीतरूपः प्रसिद्धकीर्ति: । " रूपय- शस्याभिरूप्येवर्णेचैवनिरूपणे " इतिनिघण्टुः । यद्वा प्रतीतरूपः प्रकर्षेणहृष्टः । प्रशंसायांरूपप् । चकारबुद्धिंचेति नह्युक्तिरन्याबुद्धिरन्येतिभावः ॥ २४ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे लक्ष- ती० मदन्तरे मयाविना | ति० मदन्तरे मद्विषये । यत्तुमयाविनेत्यर्थ इति तन्न | अन्तरेणेत्यव्ययस्यैवतदर्थत्वात् । ममत्वव सरवाचीअन्तरशब्दइतिनदोषः । शि० मदन्तरे ममअन्तरः दूरगमनंयस्मिन्काले तस्मिन् ॥ १६ ॥ ति० दृढीकरणमन्यथा- भावान्निवृत्तिः । बहूनामग्रेउक्तोह्यर्थो नान्यथा कर्तुशक्यते । मुख्यप्रयोजनमाह — कीर्तिसमभिवर्धयन् | असर्वज्ञजनंप्रतीतिशेषः । हेतौशता । कीर्त्यभिवृद्धि हेतवेऽपृच्छमित्यर्थः ॥ २१ ॥ स० कामार्थे कामितार्थे तद्दानइतियावत् । कोविद । यद्वा सुप्राज्ञे- त्युपसर्गद्वेयेनधर्मविषयकज्ञानवत्त्वस्योक्तत्वादत्रकामार्थयोःको विदेत्यर्थः ॥ २३ ॥ शि० उदारदर्शनः उदारंभरद्वाजौदार्यपश्य- तिसः । प्रतीतरूपः प्रतीतंबोधितंरूपंरामानुयायित्वरूपस्वरूपंयेनसभरतः ॥ २४ ॥ इतिनवतितमस्सर्गः ॥ ९० ॥ ट. भगवान्. [ पा० ] १ ख, ङ. छ. ज. झ. ट. चास्याभि. ग. चप्रतिवन्दितुं. ५ ख. घ. ज. वसत्यसौ. ६ क. घ. ज. साधूनामनु. च. – झ. ट. तवायर्थ. ९ ङ. छ. झ. ट. अयं. १० ञ. एनं. ११ ङ, छ. ट. महाश्रमेतदा. क. - घ. ज. तदामहाश्रमे, झ. तदाश्रमेतदा. २ ङ. च. छ. झ ञ ट . तं. ३ ग. गतिं. ४ ङ. छ. ७ क. – घ. च. छ. ज. ट. आपृच्छं. ८ क. घ.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३७
दिखावट