सर्गः ३९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १६७ तत्त्वेतत्समतिक्रम्य निरयं गन्तुमिच्छसि ॥ मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ १२ ॥ इतीव राजा विलपन्महात्मा शोकस्य नान्तं स ददर्श किंचित् ॥ भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमग्नः ॥ १३ ॥ एवं ब्रुवन्तं पितरं रामः संस्थितो वनम् || अवाक्छिरसमासीन मिदं वचनमब्रवीत् ॥ १४ ॥ इयं धार्मिक कौसल्या मम माता यशस्विनी ॥ वृद्धा चाक्षुद्रशीला च नै च त्वां देव गर्हते ||१५|| मया विहीनां वरद प्रपन्नां शोकसागरम् || अदृष्टपूर्वव्यसनां भूयः संमन्तुमर्हसि ॥ १६ ॥ पुत्रशोकं यथा नछेचया पूज्येन पूजिता ॥ मां हि संचिन्तयन्तीयमपि जीवेत्तपस्विनी ॥ १७ ॥ इमां महेन्द्रोपम जातगर्धिनीं तथा विधातुं जननीं ममार्हसि ॥ यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ १८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डेऽष्टत्रिंशः सर्गः ॥ ३८ ॥ एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ दशरथाज्ञ्यासुमन्त्रेण रामस्य वनयापनायरथानयनम् ॥ १ ॥ सीतयाराजाज्ञयाधनाध्यक्षोपनीताभरणैःस्वगात्रालंकरणम् ॥ २ ॥ कौसल्ययासीतांप्रतिसत्यसतीलक्षणनिरूपणपूर्वकं श्रीरामेराज्यप्रच्युति निमित्तका वमानाकरणोपदेशेतयातांप्रतिस्वस्य पातिव्रत्यधर्मज्ञानप्रकाशनपूर्वकंतदुक्तानुष्ठानोक्तिः ॥ ३ ॥ रामेणकौसल्यासमाश्वासन पूर्वक मितरमातृःप्रतिपाक्षिकापराध- क्षमापनेताभिर्दुः खादुञ्चैरुक्रोशनम् ॥ ४ ॥ रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् || समीक्ष्य सह भार्या भी राजा विगतचेतनः ॥ १ ॥ 'नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् || न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ २॥ स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः ॥ विललाप महाबाहू राममेवानुचिन्तयन् ॥ ३ ॥ त्यक्त्वाजटाचीरधरोवस” इतियदब्रवीः । त्वयोक्तंत - | नगच्छेत्तथाकुर्वित्यर्थः । नमच्छोकाद्यथानश्येत्त्वयापू- च्छृण्वतामया तावत् रामविवासनमात्रमेवप्रतिज्ञातं | ज्येनपूजिता । मांहिसंचिन्तयन्तीयंत्वयिजीवेत्तपखि- नतुसीताप्रव्राजनमितिभावः ॥ ११ ॥ मयाप्रतिज्ञात- | नीत्यपिपाठः । पूर्वार्धस्यपूर्वेणान्वयः । त्वयिविषयेजीव- मतिक्रम्य निरयं नरकं । गन्तुमिच्छसि । कुतः हि तू मांचिन्तयन्त्यपित्वदुपलालनेनजीवेदित्यर्थः । यद्वा यस्मात् । यात्वं मैथिलीमपिचीरवासिनीमीक्षसे वा- मांसंचिन्तयन्ती मच्छोकाद्यथाननश्येत्तथात्वयापूजि- ञ्छसि ॥ १२ - १३ | संप्रस्थितः गन्तुमुद्यतः ॥१४ ता त्वयिजीवेदित्येकंवाक्यम् ॥ १७ ॥ जातगर्धिनीं —१५ ॥ प्रपन्नां प्राप्तां । भूयः अतिशयेन । सं- पुत्रदर्शनकाङ्क्षिणीमित्यर्थः । न्यस्य त्यक्त्वा ॥ १८ ॥ मन्तुं संमानयितुं । ज्येष्ठपत्नीत्वेनपूर्वमेवसंमानिता अ- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पी- द्यविशेषेणमद्याच्नयेतिभावः ॥ १६ ॥ पुत्रशोकंयथा- ताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टत्रिंशः नर्छेत्तथासंमन्तुमर्हसीतिपूर्वेणसंबन्धः । यद्वा उत्त- सर्गः ॥ ३८ ॥ रेणैवान्वयः । मांसंचिन्तयन्तीयंतपस्विनी अपिजीवे- त् यदिजीवेत्तदात्वयापूजितासती पुत्रशोकंयथान- विगतचेतनः अभूदितिशेषः दिरूपैःपातकैः किंकि मनुभविष्यसिवा नजानामीतिशेषः ॥ १० ॥ ति० ईक्षसे वाञ्छसि । “सऐक्षतबहुस्यांप्रजायेय" इत्यादा- विच्छार्थस्येक्षतेर्दर्शनात् ॥ १२ ॥ ति० संप्रस्थितः एवंवादात्तयासहगमनेकृतानुमतिकत्वात्तयागन्तुंप्रवृत्तः ॥ १४ ॥ ति० नच गर्हते त्वदाज्ञयामयिवनंगच्छत्यपीतिशेषः । सत्यरक्षणंधर्मइतिज्ञात्वेतिभावः ॥ १५ ॥ स० संमन्सुं समाधानकर्तुं ॥ १६ ॥ ति० जातगार्धनींजातःमद्दर्शनविषयोगर्धः अभिलाषःयस्यास्तां । स० जातगर्धिनीं पुत्रभूतंमांसंनिधानेवस्तुमाकाङ्क्षन्तीं ॥ १८ ॥ इत्यष्ट- त्रिंशस्सर्गः ॥ ३८ ॥ [ पा० ] १ ख मर्हसि २ ग. ञ. व्यसनेनममः ३ ख. सप्रस्थितो. ४ क. च. नत्वांदेवविगर्हते. ङ. नतुत्वां. ५ क संचिन्तयन्तीया, ६ ख. सरामस्य ७ च सुतं. घ, यतः. ८ ख. तेन. घ. नैव. ९ क. दुःखितस्तु,
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७१
दिखावट