सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३
पर्यायवचनविवेकः

रक्षतिर्गोपायतिना समानार्थ इति प्रत्यायितों लोकः, परं नैषावस्तुस्थितिः । स मा रक्षतु स मा गोपायतु इत्यथर्वसंहितायां शौनकीयायामुभयोः सहxx प्रयोगो पलम्भात् । अत्र सायण इत्थं भाषते--अत्र रक्षणगोपनयोरहितनिवारणहितकरणं- रूपपालनभेदेन भेदो द्रष्टव्यः ।

 ओजोऽसि ओजो मंयि धेहि । वीर्यमसि वीर्यं मयि धेहि । सहोऽसि सहो मयि धेहि इतेिं यजुष्कण्डिकायां (२८|५) ओज आदीनां बलवाचकत्वेप्यस्त्यवान्तरभेदः । ओज इन्द्रियबलं भवति । वीर्यं शरीरम् । सहो मानसम् . इति व्याख्याति महीधर: । ओजो दीप्तिर्बलं वीर्यं प्रसह्यकरणं सह इति;तु षड्गुरुशिष्यः ।

 अवनत्राणयोः समानेपि पालनेथेऽस्ति कश्चिदवान्तरो भेदः । त्रातारमिन्द्र- मवितारमिन्द्रमित्यत्राथर्वणे द्वयोर्युगपच्छ्रवणात्। अयमसौ सायणोद्भावितो भेदः- त्राणं नाम उपस्थितेभ्यो भयहेतुभ्यो रक्षणम् । अवनं तूदेष्यतां निरोधः। स्तेनस्ताय्योरपि पर्यार्थत्वेनाभिमतयोर्निर्निर्वक्तव्यों भेदः ( १६|२१ ) यजुष्कण्डिकां व्याचक्षाणो महीधर आह—गुप्तचौरा' द्विविधा भवन्ति,रात्रों गृहे खातादिना द्रव्यहर्तारः, स्वीया एव वाहार्निशमज्ञाता हर्तारश्च । पूर्वे स्तेना उत्तरे स्तायवः ।

 कुत्सा निन्दा च गर्हणे इत्यमरे कुत्सागर्हयोः पर्यायवचनताऽभ्युपेयते। भारते वनपर्वणि (२०७|२३ ) न कुत्सयाम्यहं किं चिन्न गर्हे बलवत्तरम् इत्यत्र कुत्सागर्हयोः .सांकमुदीरणात्सा विघटते । कुत्सागर्हे इत्थं विविनक्ति नीलंकण्ठष्टीकाकारः- कुत्सा विद्यमानंदोषसंकीर्तनम् । गर्हाऽविद्यमानदोषांरोप इति | सेयमसुदुत्प्रेक्षा । वस्तुतः कुत्साऽवक्षेपणं परस्य न्यक्करर्णं लघूकरणं भवति । कुत्स्यमानः सदोषः स्याददोषो वेत्यनादरः । अवक्षेपणे कन् (५|३|९५) इत्यत्र 'ब्याकरणकेन नाम त्वं गर्वितः' इत्युदाहरणम् । अजेर्व्यघञपोः (२|४|५६ ) इति सूत्रे भाष्ये वैयाकर्णसूतयोरेष संवादः स्थितः-- एवं हि कश्चिद् वैयाकरण आह--कोऽस्य रथस्य प्रवेतेति । सूत आह-आयुष्मन्नहं प्राजितेति । वैयाकरण आह—अपशब्द इति । सूत आह-प्राप्तिज्ञो देवानां प्रियो न त्विष्टि्ज्ञः । इष्यत एतद्रुपमिति । वैयाकरण आह-अहो नु खल्वनेन् दुरुतेन बाध्यामह इति। सूत आह-न खलु वे्ञ्: सृतः सुवतेरेव सुतः। कुत्सा प्रयोक्तव्या। दु:सूतेनेति वक्तव्यम् । नात्र कुत्सा विद्यमानदोषविषया; सूतस्य निर्दुष्टत्वात् । लघूकरणं तुच्छत्वापादनमेवाभिप्रेयते । गर्हा नामासद्दोषविषया भवतीत्यपि न । गर्हायां लडपिजात्वोः(३|३|१४२ ) इत्यत्र गर्हायां गम्यमानायां सर्वलकारापवादो लङ् विधीयते । उदाहरति च काशिकाकारः-- अपि तत्रभवान् वृषलं