पृष्ठम्:वाग्व्यवहारादर्शः.djvu/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६.
वाग्व्यवहारादर्शः

दृष्टेः। तद्यथा । तर्जापयति मां नित्यं भर्त्सापयति चासकृत् (६।३३।१ ) इति । तत्रैवं विंविङ्क्ते तिलककारः-अवाचिकी भीषिका तर्जनम् । वाचिकी तु स मर्त्सनमिति । इदं च हृदयङ्गमम् । तथा हि भष भर्त्सन् इंतिं पठ्य्ते न तु भष तर्जन इति । आगन्तुमुपसर्पन्तं निशाम्य वाचा भीषयते श्वा न तु कायव्यापारेण । प्रदेशिनी नामाङ्गुलिस्तर्जनीतुि संज्ञान्तरेणोच्यते न तु भर्सनीति विभीषिकायां वाग्व्यवहाराभावात् । अत एवामरः शब्दवित्तम् xxxपपाठे-भर्त्सनं त्वपकारगीरिति ।

 केयूरमङ्गदं तुल्ये इत्यमरे पर्यायवचनतया पठिते। परं रामायणे भारते चानयोः सहप्रयोगदर्शनान्नैते समानार्थके इति शक्यमध्यवसातुम् । रामायणे तावत्--अङ्गदानि च चित्राणि केयूरणि शुभानि चेति दृश्यते । तत्राङ्गदं बाहु- मूलघार्ये भूषणम् ।केयूरं तदधोभागस्थमिति तिलककारः। भारत उद्योगपर्वणि चाप्येनयोर्भेदेनोपादानं विलोक्यते । तद्यथा । अङ्गदैः पारिहायैश्च केयूरैश्च विभूषि- तान् ( १६२|१६ ) इति । तत्रैव भीष्मपर्वण्यङ्गदकेयूरयोः साहचर्येण पाठस्तयोः पर्यायतां व्याहन्ति--काञ्चनाङ्गदकेयूरैः कामुकैश्च महरंथाः, (१७|१७) इति ।

 विलापः प्ररिदेवनमिति परस्परेण समानार्थकं. द्वयं कोषेषु । अत्रापि विशेषः कश्चिदस्ति स वक्तव्यः । परिदेवनमिति चौरादिकाद् दिव परिकूजन इति धातोर्व्युत्पद्यते कूजनं रोदनं चास्यार्थः । कूजति रोदितीत्यनर्थान्तरम् । अङ्गात्प्रातिलोम्ये (८|१|३३) इति सूत्रे अङ्ग कूज वृषल, इदानीं ज्ञास्यसि जाल्मेति प्रत्युदाहरणे तदर्थावगतेः । विलाप इति तु लप व्यक्तायां वचीत्यस्मात्तेनैतयोरर्थभेदः स्फुटः । तथा चैतयोः पृथगर्थतया रामायणे प्रयोगः—-विलपितपरिदेवनाकुलं व्यसनगतं तदभूत्सुदुःखितम् (२|३९|४१) । तत्र विलपितं रामगुणकैकेयीदुर्गुण- प्रतिपादकं वाक्यम् । परिदेवनं रोदनमिति रामकृताः विवृतिः।

 पिशुनसूचकौ संमार्थकौ प्रतिपद्येते । तथा च धातुपाठः षूच पैशून्य इति । भृगुप्रोक्तायां मनु संहितायां तु भिन्नार्थकतया प्रयुक्तौ। पिशुनः पौतिनासिक्यं सूचकः पूर्तिवक्त्रताम् ( ११|५० ) इति । तत्र पिशुनो' विद्यमानदोषाभिधायी । सूचकोऽविद्यमनंदोषाभिधायक इति कुल्लूको विशेषमाविष्करोति ।

 सिकताशर्कराबलुकानां प्रायेण व्यतिकीर्यन्ते प्रयोगाः अस्तीहं सामान्यं भेदश्च । भारते शान्तिपर्वणि भूमिपाषाणसिकताशर्कराबालुकाभस्मशायिन इति प्रयोगों लक्ष्यते । तत्र सिकता: सूक्ष्मपाषणपांसवः। शर्करा कर्कर-सहिता मृत् । बालुका लघूपलमिश्रः सिकता एवेति भारतभावप्रदीपे नीलकण्ठः ।