दीप्तिकान्तिद्युतयोऽदूरविप्रकर्षात्पर्यायाःवस्तुतस्तु भिन्नार्था इत्यत्र शिष्टप्रयोगाः प्रमाणम् । तथा च भारत आदिपर्वणि तत्तद्विषयतापच्छेिदेन तेषां प्रयोगः--- दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपम ( १८|३: ) इति । अन्यत्र च भीष्मपर्वणि-उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत (११|३० ) इति । अन्यत्रापि काव्यनाटकेषु सूर्यादीनां दीप्त्यादिभिरव्यभिचरित: सम्बन्धो विलोक्यते प्रयोगनियमश्च विज्ञायते । तद्यथा । उच्चैः सर्वैः समग्रस्त्वमिंव दीप्यते सप्तसप्तिरिति विक्रमोर्वशीये । कला च सा कान्तिमती कलावत्त इतेि च कुमारे । अत्र तेजस्तारतम्यमेव विषयभेदे हेतुः । सूर्यस्य तेजश्चक्षुरुपहन्तीत्यसह्यं भवति, तदुच्यते दीप्तिरिति । चन्द्रस्य प्रभा कमनीया भवतीतिं साऽभिधीयते कान्तिरिति । ज्वलनो नामार्चिष्मान्भवति, विरम्य विरम्य च ज्वलत्येधेनेति पुनः पुनः प्रीणितः सन्निति स उच्यते द्योतत इति । यथा तारका द्योतन्ते यथा वा विद्युद्विद्योतत इति । ताभिः सामान्यं किञ्चिदादाय सूर्यचन्द्रयोः प्रकाशां विशेषं कञ्चिदाख्यातुं तथा प्रयोगो भारते । नायं नियमः सूर्यादीनां कर्तृतायां तत्सम्बन्धे वा दीप्यतिंप्रभृतीनां धातूनामेव प्रयोगो भवतीति, धात्वन्तरप्रयोगस्य बहुलदर्शनात् । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतोभान्ति कुतोऽयमग्निरित्यत्रैकेन भातिना सूर्यादीनामन्वयदर्शनात् ।
कोपक्रोधवभिन्नार्थाविति प्रायेणाभ्युपेयते । तदुनुपपन्नम् । क्रुधद्रहेर्ष्यासूयार्थानां यं प्रति कोप (१|४|३७ ) इति सूत्रे भाष्ये नानार्था एते कुपौ त्वेषां सामान्यम् । न ह्यकुपित: क्रुध्यतीत्युक्तम् । तत्र कोपक्रोधंयोर्विशेषमभिप्रैति भाष्यकारः । तं च विशेषमित्थमुन्नयति कैयट:—ननु.कोपः क्रोध एवेति भेदाः भावात्कथं पौर्वापर्यम् । एवं तर्हि प्रथमामनुभूतां कोपावस्थां द्वितीयां चोद्भूतां विकृतवाक्कायव्यापारानुमीयमानामाश्रित्यैतदुक्तमित्यदोषः । एतच्च "प्रतिकूलेषु तैक्ष्ण्यस्य प्रकर्षः क्रोध उच्यते’ इत्यभियुक्तोक्त्या बलवत्समथ्र्यते । क्रोधो विक्षिप्तचित्ततेति शान्तिपर्वणि (२१३|४) नीलकण्ठमणितिरप्यत्रानुगुणां । अमर्षरोषावपि विविच्येते अर्थतो विचक्षणैः। मालतीमाधवे(पृष्ठे ९० तमे )ऽमर्षरोषाविति द्वन्द्वनिर्देशः समुपलभ्यते । तत्र टीकाकारो जगद्धर इत्थं विशेषं निर्वक्ति--अमर्षरोषौ अक्षमाक्रोधौ । यद्वा स्थिरक्रोधतात्कालिककोपौ यथाहु–क्रोधः कृतापराधेषु स्थिरोऽमर्षत्वमश्नुते रोषस्तात्कालिकः कोप इति इदं च. निरवधं भाति । क्षणे रुष्टः क्षणे तुष्टो रुष्टस्तुष्टः क्षणे क्षण इति हितोपदेशस्थे पद्ये वाक्यार्थे विमृश्यमाने - रोषस्तात्कालिकः . कोपो भवतीति ने दुष्करमुन्नेतुम् ।