पृष्ठम्:वाग्व्यवहारादर्शः.djvu/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
पर्यायवचनविवेकः

काश्यपेन महात्मना - ( आ० आस्तीक पर्वणि ४३।१०।११) ॥ गहनमिति दुष्प्रवेशार्थमभिधाय वनमात्राभिधानेपि शक्तं भवति । उभयथा हि, प्रयोगा दृश्यं न्ते । एवं चात्र क्रम xx प्रतिभाति-आदौ केवलं यौगिकांश्शब्दाः कालपर्ययेण योगरूढो भवन्ति । तत्र विशेष्यसाहचर्ये तद्धेतुका प्रसिद्धिर्वा निबन्धनं भवति ।

 क्वचिदुपमानान्यपि केवलानि प्रयुक्तान्युपमेंयैः सहैकार्थतां यान्ति विंशोष्योणि वा विशोषणैरिति विपरीतोपि क्रमो लक्ष्यते । घनं इति मेघपर्यायेषु पठ्यते । तथा चामरेण तेऽनुक्रम्यन्ते–घनजीमूतमुदिरजलमुग्धूमयोनयं इति । मूतौ' घन (३।३।७७ ) इति घनशब्दः पाणिनीये निपातितः । मूर्तिश्चास्यार्थो निर्दिष्टः। मूर्तिर्नाम काठिंन्यंम् । यदा च धर्मशब्देन धर्मी भण्यते तदा घनं दधीत्यपि भवति|

कठिनं

संशीनमित्यर्थश्व । यथार्थान्तरं दध्यादि घनं भवति तथाऽभ्रमपि । तादृशं संश्लिष्टावयवेऽम्मये जीमूते विवक्षितेऽभ्रघन इति प्रयोगोऽभूदिति शक्यमनुमातुम् । पश्चांत्साहचर्येण निरूढिं गतेर्थे घनशब्दः केवलोऽभ्रपरिहारेणापि तदर्थं प्रवृत्तोऽभिधातुम् । इयं चानुमाऽऽदिकवेः प्रयोगेण समर्थ्यत इति सर्वे निर्विचिकित्सं स्थितं भवति । तथा श्रीरामायणे (५|५७|२८) प्रयोगः-तमभ्रघनसंकाशमा पतन्तं महाकपिम् । अभ्रं घंन इवेति विग्रहो द्रष्टव्यः । घन इत्यस्य कठिनतंघात इति चार्थः । अभस्य घनो मूर्तिरित्येवमपि शक्यं विग्रहीतुम् । यथानन्दघन इति वा सैन्धवघन इति वा । तत्रापि षष्ठ्यन्तं विशेषणं भवतीति विशेषणमन्तरेणापि केवलो घनशब्दो घनं सान्द्रमभ्रमाह । तथा चेदानीन्तनाः' पञ्चनदीयाः कुङ्कुम- केसर इत्यस्य स्थाने केसर इत्येव व्यवहरन्ति विशेषणपरिहारेण ।

 क्वचिद्विशेषवाची शब्दः सामान्यवाचिना समं प्रयुक्तः केवलं विशेषणार्थे पर्यवस्यति । तद्यथा । कान्तारो हि महारण्यमाह प्रथमया वृत्या । परं वनेन संनियुक्तों दुष्प्रवेश इत्येवार्थमर्पयति । तथा च भगवतो वाल्मीकेः प्रयोगः-बहुदोषं हि कान्तरं वनमित्यभिधीयते ( रा० २|२८|५ )।

 सामान्यस्य विशिष्टार्थोपसङ्क्रमोपि दृश्यते। गरुदिति पक्षनाम् । गरुत्मानिति पक्षिप्रर्यायः । तथा चामरः-नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगसा इति समानार्थकान्परिपठति । पक्षिसामान्यवचन एष गरुत्मच्छब्र्दः कालपरिवासेन पक्षिविशेषे सुपर्णे रुढिं गतोऽतिशयविवक्षया । अपशवो वान्ये गो अश्वेभ्यः। पशवो गोश्वा इति ब्राह्मणे चात्र वचनभङ्ग्यनुसृता भवति । एवं ह्यभिप्रयन्ति तत्र वक्तारः--अयमेको गरुत्मान्यो जविष्टः पतताम् अन्ये गरुत्मन्तोप्यगरूत इवेति ।

 विपरीतोपि क्रमो लक्ष्यते वाहिनी पृतना चमूरनीकिनीत्यादयः सैन्यविशे-