सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१
उद्देश्यविधेयभावः

मन्त्रितो मन्त्रो न राष्ट्रं परिधावतीत्यत्र (भा० सभा० ५।३०) यथा । तत्र धातुः क्रियासामान्ये भवतीति कल्प्यं भवति । एवमन्यत्रापि-- स निश्चयेन योक्तव्यो योगो निर्विण्णचेतसा इति गीतासु (६।२३)। व्यूहौ च व्यूह्य संरब्धाः सम्प्रहृष्टाः प्रहारिण इति भारते ( भीष्म० ६९।३ )। उपधानं कुरुश्रेष्ठं फाल्गुनोपधत्स्व मे (भीष्म० १२०।४१) इति च । उक्तलक्षणं कर्तृपदं तु बाढमिच्छन्ति । चौरस्य रुजति रोगः । चौरस्यामयत्यामय इति च काशिकायाम् (२।३।५४ )। यत्र क्रियामात्र उदिते कर्मणि चानुदितेऽर्थो न पूर्यते तत्रार्थवान् कर्मणः प्रयोग इति न वार्यते । को भवता दायो दत्तः । को भवता लाभो लब्ध इति ।

 इदं चापि व्यवहारानुबन्धि किञ्चिदवधानेनानुगृह्यताम् । यत्र खलु विशेषणमहिम्ना विशेष्यार्थलाभस्तत्र शक्यं विशेष्यमप्रयोक्तुम् । तद्यथा सागराम्बरेति समुद्रवसनामुर्वीमाह । विषाक्ते दिग्धलिप्तकावित्यमरात्केवलौ दिग्धलिप्तकशब्दौ विषसम्पृक्तशरवचनौ परिगृह्येते । भारते प्रयोगोपि दृश्यते—-दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ( उद्योग० ३९।२७ )। उष्णानि कृष्ण वर्तन्ते इति भारतप्रयोगेऽप्युष्णानीति निदाघाहा उच्यन्ते । अजर्यं संगतमिति जीर्यतेर्नञ्पूर्वात्संगते संगमने कर्तरि यत्प्रत्ययो निपात्यते । अजर्यमार्यसंगतम् । परं केवलोऽप्यजर्यशब्दस्तादृशे संगते प्रयुज्यते । मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनुर्बबन्धेति रघौ ( १८।७ )। क्वचिन्नाम्नापि केवलेन तत्कर्मिका क्रिया लक्ष्यते । नागपृष्ठेऽश्वपृष्ठे च परिनिष्ठित इत्यत्र नागपृष्ठारोहणेऽश्वपृष्ठारोहणे च परं प्रावीण्यमुपगत इत्यर्थोऽभिधित्सितः ।

उद्देश्यविधेयभावः

 अवसितः कारकादिविचारः । इदानीं वाक्य उद्देश्यस्य कर्तृतां वा स्याद्विधेयस्य वा । अपि वाऽन्यत्रार्थानुरोधात्किमुद्देश्यस्य कर्मत्वमिष्यतामुताहो विधेयस्येति विचारमवतारयामः । यद्युद्देश्यस्य कर्तृता तदा कर्तृवाचिनि तिङि धातोरुद्देश्यमनुसरन्ती पुरुषवचने भविष्यतः । अथ विधेयस्य कर्तृता तदा तदेव ते अनुरोत्स्यतः । एवमेकैकस्य कर्मत्वविवक्षायां तत्तदनुरोधात् धातोः पुरुषवचने, क्तान्तात्प्रातिपदिकाच्च लिङ्गसंख्याविभक्तयो भविष्यन्ति । अस्मिन् गालोडिते प्रवृत्तानां वैदिकं लौकिकं च साहित्यं शीलयतां नः प्रायश उद्देश्यस्य कर्तृत्वाभिप्रायानि यथाविवक्षं कर्मत्वाधिगमकानि वा वाक्यानि दृक्पथमवतरन्ति । तानि


१. रात्राह्नाहाः पुंसीति पुंस्त्वम् । २. गालोडितं वाचां विमर्शः ।