सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२११
परिवृहणम्

त्वया (रा० २|९२|३०)। इह स एवार्थोऽवगामिनोक्तः । अवस्तदर्थस्य द्योतकः ।

 दोषेण गन्तुं दोषेण मन्तुम् इत्युभयो व्यवहार: प्रदर्शितचरः । दोषेण शङ्कितुमित्यपि सुव्यवहरमिति प्रदर्श्यते-- न मामर्हसि कल्याण दोषेण परिशङ्कितुम् ( भा० वन० ७६|२६ )।

 विनार्थे बहिः शब्दः शतपथे —स बहिष्पवित्राद् गृह्णाति (४|१।१|३) । समासः क्रियतामातिशायिकस्तद्धितो वेति सम्प्रधारणायां या व्यवस्थोक्ता (पृ० ५७) तां पुष्णती वैदिकी सूदाहृतिरियमा दीयताम्-- अजानेवालभेरंस्ते हि सुश्रपतरा भवन्ति (श० ब्रा० ५|५|४|१)|

 मन्यतेरपि मानयतेरर्थे प्रयोग:-निहन्मैन दुरात्मानं योऽयमस्मान्न मन्यते ( भा० आदि ० .१८९|३ ।।

 यर्हि वाक् प्रवदेत्तर्हि होतव्यमित्येकेषाम् (भा० श्रौ० ६।९|८)। यदा वयसां विरावः यदा शकुनिप्रवाद इत्यर्थे प्रयोगः ।

 अहमात्मीयो न भविष्यामि ( मृच्छ० ८)। जीविताद् हास्ये, कालं । करिष्यामीत्याह ।

 नाकश्च स्वर्गश्च पर्यायावभिमतौ । सान्तरौ च तौ । ‘तथा च शौनकीया आमनन्ति-ऊध्वों नाकस्याधिरोह विष्टपं स्वर्गो लोक इति यं वदन्ति (अथर्व० ११|१|७ ) ।

_____