ग्रामणी च क्षत्ता च सङ्ग्रहीता चेत्यत्रैते साकं श्रूयन्ते तेनेमे नानाभिधेयाः सिध्यन्ति ।
तीक्ष्णनिशितावपि भिद्येते । सायकेन सुपीतेन तीक्ष्णेन निशितेन च (भा० भीष्म० ४५|४८ ) इत्यत्रैतयोः सहपाठः पर्यायत्वं विघटयति । यः शाणोल्लीढः संस्तीक्ष्णः संजातः स निशितः, अन्यस्तीक्ष्णः ।
अभितापसन्तापावपि भिद्येते । तथा हि भेदपरस्तयोः प्रयोगः श्रीरामायणे ( २।१८|१३ )–शारीरो मानसो वापि कञ्चिदेनं न बाधते । सन्तापो वाऽभितापो वा दुर्लभं हि सदा सुखम् ॥ मूलेनैव विशेष उक्त इति नार्थो व्याक्रिययां ।
कालान्तकयमाः पर्याया अभिमताः । परं नैतदस्ति । सान्तरा इमे । एकत्र सहप्रयोगदर्शनात् । विराधे राक्षसे तस्मिन् कालान्तकयमोपमे (रा० ३।३।१५) । इत्थमत्र विशेषं वक्ति “ तिलककारः -प्राणतनुमनः संहारप्रधानाः संहाररुद्रस्य मूर्त्तयः ! तत्सदृशे ।
अङ्गदकेयूरयोर्विशेष उक्तः । तत्रोदाहरणान्तरं भारतस्थमुपन्यस्यते- अङ्गदैः परिहार्यैश्च केयूरैश्च विभूषितान् ( उ० १६२|१६ )। पारिहार्य आवापकः कटकः।
निधिशेवधी पर्यायौ मतौ । पठति ह्यमरः—निधिर्ना शेवधिरिति । परमाथर्वणे (१२।३।४६ ) एतयोः साहचर्येण पाठात्सविशेषाविमावित्यवधारयामः । निधिर्न्यासो भवति शेवधिश्च भाण्डागारं कोषो वा।
वातपवमानमातरिश्वानः पर्याया अभिमताः । परमेते मिथो भिद्यन्ते समभिव्याहारदर्शनात् । मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथिः (अथर्व० १५|२|७)। मातरिश्वेति वायुसामान्यं गृह्यते । यः शोधकोऽभिप्रेतः स पवमान उच्यते । वेगेन वान्स एव वातो व्यपदिश्यते ।
शकुनशकुनिशकुन्ताः पक्षिण समानाभिधेया अभिमताः । शकुन्तान् पक्षिणो ब्रूमः ( अथर्वे ० ११|८|८) इत्यत्र शकुन्तान् शकुनभूतान् इत्येवमर्थापयते सायणः ।
होलज्जे समानार्थे इत्यभिमानः । भिद्यते ते परस्परम् । क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् (भा० वन० ९४।८) । अत्राह नीलकण्ठः--अह्रीः अकार्यं प्रवृत्तिः । ततोऽलज्जा लज्जा निन्द्यतादोषाद्भयं तस्य नाश इति ।
क्वचितसमानार्थकानामेकत्र श्रवणे समादरं हेतुं पश्यन्ति विंवरीतारो न च तान्भेत्तुं प्रयस्यन्ति । तदपि विमर्शमर्हति । याभिः सोमो मोदते’ हर्षते च (इ० १०|३०|५ )। पुनरुक्तिरादरार्थेति सायणः । समर्थमेकं पर्याप्तं कौरवाणां