सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
१९३
प्रथमोऽनुबन्धः

 संभवतिर्मिथुनीभावे वर्तमानः क्वचित् सकर्मवः , तथा च शतपथे मैत्रायण्यां संहितायां च प्रयोगः-प्रजापतिर्ह वै स्वां दुहितरमभिदध्यौ दिवं वोषसं वा मिथुन्यनया स्याम् इति तां संबभूव ( श ब्रा ० १|७|४|१ )। अग्निर्ह वाऽपोऽभिदध्यौ मिथुन्याभिः स्यामिति ताः सम्बभूव, तासु रेतः प्रसिञ्चत् ( श० ब्रा० २|१|१|५ )। अग्निर्वै वरुणं ब्रह्मचर्यमागच्छत् प्रवसन्तं तस्य जायां समभवत् ( मै० सं० १|६|१२)। अकर्मकः खल्वपि--प्रजावती पत्या संभवेह ( अथर्व० १४|२३२) । महर्षिः संविदं कृत्वा संबभूव तया सह ( भा० आदि० १७७|४४ )। संबभूव तया सार्धं मातुः प्रियचिकीर्षया (भा० आदि० १०६|६ ) । स तथेति प्रतिज्ञाय तया समभवन्मुनिः (भा० वन० ९९|२३ ) ।

 प्रत्ययशब्दोऽमरेणाधीनादिष्वर्थेषु पठितः अनुक्रान्ताश्च तेर्था इत्थम्-- प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु । अधीनेऽर्थे किमुदाहरणम् । राजप्रत्ययाः प्रजा इति स्वामिनः स्वकपोलकल्पितमुदाहरणम् । तेन न परितोषो विदुषाम् । इदमिह भारतस्थमुदाहरणम्-- येषां स्वप्रत्ययः स्वर्गः ( अनु०-८|३ ) । स्वप्रत्ययः स्वाधीनः ।

 अभिरूपशब्दो विद्वत्पर्यायः प्रतीतः । ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिः सत्तमान् (भा० आश्रम० १४|३) । अभिरूपा विद्वांसो विपश्चितः । अभिरूप भूयिष्ठा परिषत् ( शा० १ )। अभिरूपः षट्कर्मनिरतः ( गौ० ध० २|१|४४) सूत्रे हरदत्तः ।

 निःशलाकशब्दोऽमरे विजनार्थकः स्थितः । विविक्तविजनच्छन्ननि:- शलाकास्तथा रहःरहश्चोपांशु इत्येते तत्र पर्यायाः पठिताः । अत्रार्थे अरण्ये निःशलाके वा मन्त्रयेदविभावितः (मनु०. ७|१४७)। इत्यत्र पाठः। भारते तु निस्तृणोर्थेऽस्य प्रयोगः—समे देशे विविक्ते स निःशलाक उपाविशत् ( श० ३३२|१ ) ।

 करतलाभ्यां ध्वनिकरणं वक्तुंकामाः प्राञ्चः करतलध्वनिं कुर्वन्ति, करतलानि वादयन्तीत्याद्यनुक्त्वा तलान् (तलानि वा ) ददतीत्येवमाहुः । तथा च भारते प्रयोगः--ततः प्रहसिताः सर्वे तेऽन्योन्यंस्य तलान्ददुः ( वन० २३८|२४ );

 उच्चावचं नैकंभेदमित्यर्थः । उच्चावचेष्वर्थेषु निपतन्तीति निपाताः ( नि० १|४|२) इति तत्रार्थ उदाहरणम् । उदक् च अवाक् चेत्युच्चावचम् इति पृषोदरादीनि यथोपदिष्टम् (पा० ६।३।१०९ ) इति सूत्रे वृत्तिः । तत्र मुख्येऽर्थेपि