उपेति सामीप्यमाह । कर्णमुपेत्याजपदित्येवं व्याख्यायमाने द्वितीयोपपत्तिमती भवति ।
स्पृशेराहननं प्रहरणमर्थो मर्मस्पृगित्यादिषु समासेषूपलभ्यते । तिङन्तस्यापि तस्यायमर्थो भारतप्रयोगे दृश्यते स्फुट:--अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः ( उ० १७|१२)। अस्पृशत् आहन् , प्राहरत्, अताडयत् ।
रामः सीतायाः पाणिं गृह्णातीत्यर्थाभिधित्सया रामः सीतां पाणौ गृह्णातीत्येवमपि शक्यमुदाहर्तुम् इत्यत्र नित्यं हस्तेपाणावुपयमनेः (पा० १|४|७७ ) इति शास्त्रं लिङ्गम् । अन्यत्राप्युपयमनात्पाण्यादेः सप्तम्यन्ततामिच्छन्ति व्यवहारविशारदाः--तं पाणावादायोत्तस्थौ ( शं० ब्रा० १४|५|१|१५ )। ततो दुयोंधनः कर्णमालब्याग्रकरे नृपः ( भा० सभा० १३७|२० )। श्वेतकेतोः किला पुरा समक्षं मातरं पितुः। जग्राह ब्राह्मणः पाणौ (भा० आदि० १२२|११-१२) अत्र विषये तृतीयाप्रयोगं न सहन्तेऽग्रकरेण पाणिनेति वा ।
विस्मरणं स्मृतिप्रमोषमाह तत्पूर्वके सहादेयद्रव्यत्यागेपि वर्तते यथाद्यत्वे प्रचरति भाषान्तरे हिन्द्याम् । इध्म दर्भाः सुमनसः कलशश्चातिभोजनम् । विस्मृतं मे तदादाय नदीतीरदिहाव्रज (भा० अनु० ७१|५ )।
पौर्वकाल्ये क्त्वेति पाणिनीयमनुशासनम् । करणेपि स इध्यते तात्पर्यत इति समुदाह्रियते—हत्वा चैनं नामृत्तः स्यादयं मे (भा० अनु० १|२३ ) । इह करणत्वं क्त्वार्थः । अयं मे पुत्रोऽस्य हननेनामृतो न स्यादित्यर्थः । लौकिका अप्याचक्षते—भुक्त्वैव हि तृप्तो न तु पीत्वेति । भोजनेनैव तृप्तो भवति न तु पानेनेत्यर्थ इति नीलकण्ठः ।
कृषिर्विलेखने भ्वादिश्च तुदादिश्च । समानेप्यर्थनिर्देशे विषयभेदेन प्रयोगो व्यवस्थितः, प्रतिनियतविषयाः शब्दाः । क्षेत्रं कृषतीत्येव न तु क्षेत्रं कर्षतीत्यपि । कृञो द्वितीयतृतीयशम्बबीजात्कृषौ (पा० ५|४|५८) इत्यत्र शम्बा करोति । अनुलोमकृष्टं क्षेत्रं पुनः प्रतिलोमं कृषतीत्यर्थ इति काशिका। दीक्षितस्त्वत्र कर्षतीत्याह । स् प्रमादः । कर्षतेस्तु कृषेरन्यत्र कर्षणे प्रसिध्यन्ति प्रयोगाः-- अजां, ग्रामं. कर्षति, प्रसह्य सिंहः किल तां चकर्ष, महद्यशः कर्षत्यादयः । बेदे खल्वपि कृषौ कृषेस्तुदादेः प्रयोगः--शुनं सुफाला विकृषन्तु भूमिम् ( वा० सं० १२|६९ )।
आक्रोशे पठितस्य शपतेः प्रतिज्ञानेपि समुपलभ्यते प्रयोगः शतपथे- शेपानोस्मि नमुचये न त्वा दिवा न नक्तं हनानिः(१२|७|३|१) | शेपानः प्रतिज्ञातवानस्मि, प्रतिश्रुतवानस्मि ।