२६८-विदुषां द्वाराऽस्य निर्णयः कार्यः ते हि प्रमाणमेवञ्जातीयकेष्वर्थेषु ।
२६९-विद्वांसो हि विविघाभिर्विधाभिः सम्मानमर्हन्ति ।
२७०-तत्र प्रदेशे सर्वत्र क्षारं जलं सुलभमभूत् , नैकोऽपि बिन्दुरासीद्यो लवणसान्न
स्यात् ।
२७१-नेदं तिरोहितं जनस्य मन्दाक्षस्यापि ।
२७२–मनुष्यो हि तेषु तेष्वर्थेषु लुब्धस्तृषितो मृगो मरीचिमिव पश्यन्सहसा
प्रधावति ।
२७३-न हि कश्चित्सहजं स्वभावमतिक्रमितुमलम्।
२७४-संस्कृतं नाम जननी, हिन्दी च तदात्मजेति कथं सत्यां जनन्यां तदात्मजा
राष्ट्रसिंहासनमधिकरोतु१ ।
२६८-विद्वांस एवं द्वारं इति रूपकम् ।, समस्तरूपके विद्वद्द्वारेति वक्तव्यम् ,
व्यस्तरूपके च विद्वद्भिर्द्वारेति । षष्ठ्या नार्थः ।
२६९-विशिष्टा. विभिन्न विधा यस्य सम्मानस्य स विविधः । तत्र विविधं
सम्मानमर्हन्तीति वक्तव्ये विविघाभिर्विधाभिः सम्मानमर्हन्तीति वाक्प्र-
पञ्चेन न किमपि कार्यम् । वाग्डम्बर एव स भवति ।
२७०= च्विंविषये सातिर्विधीयते विकल्पेन कार्त्स्न्ये गम्यमाने । अत्र च्विविषयोऽ
भूततद्भाव एव नास्ति । कार्त्स्न्यमभिविधिर्वास्ति न वेति विचार एव
नोन्मिषति । लवणो न स्यादिति तु वक्तुमुचितम् ।
२७१- मन्दाक्षम् इति ह्रियि रूढमिति मन्ददृष्टेर्मन्ददर्शनंस्येति वा वक्तव्यम् ।
२७२- मरीचिकामिवेति वक्तव्यम् । मरीचिरिव मरीचिका । इवार्थे प्रतिकृतौ
कन् ।
२७३- स्वस्य भावः स्वभावः । स सहजः सहभूरेव भवतीति नार्थो विशेषणेन ।
संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थवद् इत्युक्तेः । इह च व्यभिचारो
नास्ति ।
२७४- यदि सिंहासनमधिकरोत्वित्यस्य सिंहासनं स्वीकरोत्वित्यर्थस्तर्हि न दोषः ।
यदि चाघिकारो नियोग इत्यर्थमाचष्टे तर्हि सिंहासनेऽधिक्रियेतेत्येव निर्दोषं
स्यात् ।
१. अधितिष्ठत्वित्यभिप्रैतिः।