पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
लिङ्गसंख्ये

नियतम् , शशोर्णमिति च क्लीबे । इह परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति शासनमतिक्रम्यते लोकश्च प्रमाणीक्रियते ।  क्वचित्तु समानार्थत्वेऽपि प्रत्ययमात्रकृतो लिङ्गभेदो दृश्यते यदुच्यते स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपीति । तद्यथा--सन्निधिः पुमान् , सान्निध्यं नपुंसकमिति ष्यञ्कृतो भेदः । रक्षो नपुंसकम् , राक्षसः पुमान् । गायत्री स्त्री भवति, गायत्रं नपुंसकम् । अनुष्टुप् स्त्री भवति, आनुष्टुभं नपुंसकम्' इत्यण्कृतः । स्मृतयः प्रमाणं वेदांश्च प्रमाणतरा इति तरप्प्रत्ययकृतः । कुतूः स्त्री, कुतुपश्च पुमान् इति डुपच्प्रत्ययकृतः । तस्मात्पुरस्तादन्ये होत्रकाः सदः प्रसर्पन्ति पश्चाच्छावाक’ इत्यत्रैतरेयब्राह्मणे (१०।४ ) । ऋत्विक्पर्यायो होत्राशब्दो नित्यं स्त्री, तासां वै होत्राणामायतीनामाजयन्तीनामच्छावाकीयाऽहीयत इति तत्रैव (१०|४ ), स्वार्थे कन्प्रत्ययान्तो होत्रकस्तु पुमान् । कन्प्रत्ययकृतो लिङ्गभेदः।

 अन्यत्र च समानेऽपि प्रत्ययेऽर्थभेदाल्लिङ्गभेदः । तद्यथा—तयप्प्रत्ययान्तं धर्मवृत्ति स्त्रीनपुंसकयोः । वर्णानां चतुष्टयी, वर्णानां चतुष्टयम् । वेदानां त्रयी, वेदानां त्रयम् । धर्मिवृत्ति तु वाच्यलिङ्गकम्-त्रय्यः स्थितयः । त्रये लोकाः। त्रयाणि जगन्ति । धामानि त्रयाणि भवन्ति । स्थानानि नामानि जन्मानीति। ( निरुक्ते ९।२८)। चतुष्टये ब्राह्मणानां निकेताः ( काशिकायां ८।३।१०१ )।

 धातुनिर्देशे याविक्श्तिपौ तदन्तं पुंसि—अयं वृधिः। अयं पचतिः। अव्ययं नपुंसकं भवत्यव्ययीभावश्च । शोभनं श्वः । इदं तिष्ठद्गु कालः । स्तरपि मे न मनोहरसुत्त्रसत्पृषतलोचनया रहितं त्वया । ( अमरोद्धाटने स्वामी ) । अत्र मंनोहरमिति च रहितमिति च विशेष्यनिघ्नतया नपुंसकम् ।

 इदं चात्र शब्दस्वाभाव्यमालोच्यताम् । प्रतिहारीति स्त्रीलिङ्गो' द्वारपालं द्वारपालिकां चाप्याह । प्रमाणयन्ति चैतदभिधानकृतः-द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यंप्यनन्तर इति । अयं पुंव्यक्तावपि स्त्रियामिति टीकाकारो महेश्वरः ।

 एवं वन्दिशब्दो बन्दीशब्दो वा पुंव्यक्तावपि बद्धेऽर्थे स्त्रियामेव नियतः । तथा विष्टिरपि कर्मक्ररे रूढः स्त्रियामेव’ प्रयुज्यते । तथा पुंसोऽप्युद्दिश्य भण्यते— इमा विष्टय इति । शिवेति शृगालं श्रृंगालीं चापिं समं ब्रूते । आह च स्वामी- अयं शृगालेऽपि’ स्त्रीलिङ्गः । सायणोऽपि शिवा ते पापनाशिक ( इत्यत्र क्रोष्टुनामैतत् . नियतस्त्रीलिङ्गम् इत्याह । होत्रेति स्त्रियां नियतमेव ऋत्विगर्थे वर्तते । अमित्रशब्दः शत्रुपर्यायः स्त्रीपुंसयोर्नियतः । अमित्रा मित्ररूपेयं पाणिगृहीती ममेति श्रीरामायणे । हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ( रा० २।६४|७६ ) । मातृरूपे ममामित्रे नृशंसे. राज्यकामुके (रा० २l७४।७ ) इति च । तामेव तु ममामित्रां चिन्तयन् परितप्यसे इति च भारते (आ० २३३।११) ।