सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११९
व्यवहारव्यतिक्रमास्तत्परीहारश्च

२१६– अयि पाठकाः । तांस्तान् विषयान्विशदयन्ती चिरं चकासतीयं पत्त्रिका
      भवद्भ्यो रोचते न वेति व्यक्तमुद्यताम् ।
२१७-इदं नाम भवद्दृष्टावपेक्ष्यं स्यान्मम तु सर्वथोपेक्ष्यम्'।
२१८-कृश्चीना यीशुं प्रभुं पाप्मनां क्षन्तारं पावकं च मन्यन्ते ।
२१९ -यजमानायाशीर्वादं कृत्वा प्रातिष्ठन्त यथास्वं गृहाणि याज्ञिकाः।
२२०- ह्यः पाठशाले किमिति नोपातिष्ठथा इति पृष्टोऽसौ मौनमभवत् ।
२२१- इदं ते वचनं स्वापोत्स्वप्नोपमम् । व्याहतत्वात्।
२२२–तत्र महति जन्येऽश्वारोहणां संख्या विंशतिकोटिरासीत् ।



२१६–पाठकोऽध्यापको भवति । पाठयतेर्ण्वुलि रूपम् । यद्यपि पठतेरपि ण्बुलि
      शक्यमिदं रूपं व्युत्पादयितुं प्रयोगस्तु पठितरि न भवति । तेन पठका इति वक्तव्यम्। पठतीति पठः । पचाद्यच् । स एव पठकः । स्वार्थे कन् तथा च भारते प्रयोगः---पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तका:।
      सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः ॥ (वनपर्वणि यक्ष-युधिष्ठिरसंवादे ) ।
२१७-भवदृष्ट्यापेक्ष्यमिति वक्तव्यम् । परिहाय वा दृष्टिशब्दं भवत इति
      षष्ठयैवार्थाभिधानं साधीयः । तत्र सम्बन्धे षष्ठी वेदितव्या ।
२१८-अन्यद्धि प्रवृत्तिनिमित्तं शब्दानामन्यत्र व्युपत्तिनिमित्तमितिं पुनातीति
      पावक इति व्युत्पत्तिलभ्येऽर्थे सत्यपि पावकशब्दोऽग्निमेवाह न
      त्वर्थान्तरम्। तेन पावनं पवित्रं वेति वक्तव्यम् ।
२१९--आशिषमुच्चार्य यजमानमाशिषाऽऽशास्येति वा वक्तव्यम् ।
२२०– मौनमिति भावप्रत्ययान्तम् । मुनेर्भावो मौनम् । तेन मौनी समभवदिति वक्तव्यम्, मौनमातिष्टदिति वा ।
२२१-- स्वापोत्स्वप्नोपममित्यस्य स्थाने उत्स्वप्नायितमिवेति वक्तव्यम् । उत्स्वप्नशब्दो बहुव्रीहिः उत्पन्नः स्वप्नोऽस्येति, न तूत्त्पन्नश्चासौ स्वप्नश्चेत्युत्स्वप्न इति प्रादिस्तत्पुरुषः । उत्स्वप्न इवाचरतीत्युत्स्वप्नायत इति प्रयोगः । तत्र बहुव्रीह्यर्थ एव घटत इति व्यक्तम् । सर्वथोत्स्वप्नशब्दः स्वतन्त्रो न प्रयुज्यत इति प्रयोगचुञ्चवः।
२२२-अश्वारोहा विंशतिः कोटय आसन् इत्येवं वक्तुमुचितम् । विंशतिकोटिरिति
      समासोंषि दुर्घटः । विंशतिः कोटयः समाहृताः, विंशतेः 'कोटीनां समाहार इति वा विग्रहं विंशतिकोटीति द्विगुर्नपुंसकं स्यात् ।



      १. उच्यताम् । २. पावयितारमित्यर्थो विवक्षितः ।