पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/98

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 10] ब्राह्मस्फुटसिद्धान्तपरीक्षाध्यायः ७३ [कल्पस्याद्यन्तदिवसयोः खण्डनम्] कल्पादौ यद्यर्कः कल्पान्ते भास्करिः कथं न भवेत् ॥ निजवचनव्याघातात्स्वबुद्धिकल्प: कृतः कल्पः ॥ १० ॥

ओंकारो इनवारो ह्यतीतकल्पद्युसंयुताद् द्युगणात् ।
नासौ घटते यस्मादोंकारो विस्वरस्तस्मात् ॥ ११ ॥

[ तिथ्यादीनां खण्डनम् ] तिथिकरणधिष्ण्ययोगा ग्रहणादौ व्यभिचरन्ति दृष्टेन । रविशशिनोरञ्ज्ञानाद्यतो न पञ्चाङ्गमपि वेत्ति ॥ १२ ॥ [ जिष्णुसुतोक्तं ब्रह्मोक्त्तसम्मतमित्यस्य खण्डनम् ]

न ब्रह्मोक्त्या घटते जिष्णुसुतोक्तं युगादि किञ्चिदपि । यस्मान्मृषैव तस्माद्ब्रह्मोक्त्तमिति यच्चकार तत्संज्ञम् ॥ १३ ॥

[ कलियुगादौ युगयातखण्डनम् ]

युगपादान् जिष्णुसुतस्त्रीन् यातानाह कलियुगादौ यत् ॥ 

तस्य द्वापरपादो युगगतयेये स्फुटे नातः ॥ १४ । Text of Ms. A : [10] कल्पादौ यघर्क: कल्षांते भास्करिः कथं न भवेत् । निजवचनव्याघाताप्स्वबुद्धिकल्प: कृतः कल्पः ॥ ॥ [11) उकारो दिनवरि ह्यतीतकल्पघुसंधुता घुगणात् । नासौ घटते यस्मादोंकारो विरवरस्तस्मात्। ।

[12] तिथिकरणधिस्प्रयोगा ग्रहणादौ व्यभिचरंति दृष्टेना

रविशशिनोरञ्ज्ञात्तास्तिथिर्न पंचांगमंयि वेत्ति ॥ [13] भव्रह्मोतघा घटते जिष्णुसुतोत्कं युगादि किंचिदपि। यस्मान्मृषैव तस्माद्व्रह्मोत्कमिति यच्चकार यसंत्संज्ञं । । [14] युगपादां जिष्णुसुतस्त्रीन्पातीनाह कलियुगादौ यत् । तस्य द्वापरपादो युगगतयेये स्फुटे नातः ॥ ॥

Ms. B : 11 d विस्वरस्तस्मात् 12 a धिष्ण्ययोगा