पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/80

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः 6]
५५
करणविधिः



[अधिमासावमसम्बन्धिधनक्षयौ]

अधिमासावमजाभ्यामेवं गुणकाहता रवीन्दुनिशाः ।
क्षेपं निजहाराद्वा विशोधयेच्छेषमृणसंज्ञम् ॥ ५ ॥

[मध्यमग्रहसाधनम्।]


इष्टाब्दादितदिवसाः पृथग्गुणकताडिता हरविभक्ताः ॥
क्षयधनगणेन लब्धा वियुतयुता मध्यमा भूयः ॥ ६ ॥

[द्युगणसाधनम्।]


क्षेप्ययुता हीना वा शोध्येन विभाजिताश्च हारेण ।
अधिमासाः शशिदिवसैरवमान्येवं तदूनिता द्युगणः ॥ ७ ॥

[प्रकारान्तरेण मध्यमग्रहानयनम्]


द्युगणे गुणकाभ्यस्ते धनयुजि शोध्योनितेऽथवा भक्ते ।
हारेण भगणपूर्वो ग्रहो द्युराशेः क्षये भगणवृद्धया ॥ ८ ॥


Text of Ms. A :

[5] अमासावमजाभ्पामेव गुणकाहता रवींद्रनिशा:

क्षेयं निजहाराद्वा विशोधयेश्छेषष्टणसंज्ञं ।

[6] इष्टाब्दादिनदिवसाः पृथग्रुणकताडिताद्द्विधा विभत्काः

क्षयधनगणेन लव्दा वियुतयुता मध्पमा भूयः ।

[7] क्षेप्पयुता हीना वा शोध्पेन विभाजितश्च हारेण

अधिमासाः शशिदिवसैरवमान्पेवं तद्वनिता घुगणः ॥ ॥

[8] घुगणे गुणकाम्पस्ते धनधुजि मध्पोनितेथवा तक्ते ।

हारेण भगणयूर्वो ग्रही घुराशेः क्षयस्खगणवृद्धया ॥ ॥