पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/74

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः 5]
४9
प्रत्यब्दादिशुद्धिविधिः



[प्रकीर्णविषयाः]

[१. ग्रहाणां (सावन) दिनगतयः]

भुजगोरसै[४९२ ]र्धृतिः [१८] स्याद्भ्भगणादी रजनिदयित इह ।
धृति[१८]राशयः शशाङ्को द्युगणैः कुकृतै[४१]स्त्रिवृन्द[ २७]मंशानाम् ॥ ९७ ॥
द्विखधीकृतै[४८०२]स्तदुच्चं
नवभिः[९]भगः कला च भूषड्भः[६१] ।
रामै: [३] खभुजा [२० ] लिप्ता
गोखरसै[ ६०९]दिक्[१०] कलाः शशाङ्कोच्चम् ॥ ९८ ॥
गोऽङ्गभुजै[ २६९]र्वा राशिः खभास्करै १२०]लिप्तिका हीनः।
तत्पातो नवचन्द्रे [१९]र्भागोऽब्ध्यङ्कैश्च[९४] लिप्तिकाद्वितयम् [२.] ॥ ९९ ॥
वाऽङ्गाङ्गशरै [५६६] राशिः
[सु]खधुतिदिनै[१८४]विश्व[१३]विकलिका हीनाः ।
कुभुजै[२१][श्च] [शिव][११]कुजांशा
दिवसैर्नभकुञ्जरै[८०]स्तथैव कला ॥ १०० ॥
अथवा धरातनूजो नवयमनेत्रै[ २२९]स्तु राशयो वेदाः[४] ।
द्युगणाब्धि[४]वधो भागा विश्वं[१३iर्भुजभूधराः[७२] कलाः ज्ञचलम् ॥ १०१ ॥


Text of Ms. A :

[97] भुजगोरसैर्हतिस्स्पाद्भागादी रजनिदयित इह ॥

धृतिराशयः शशांकोधिगर्मः कुकृतैस्त्रिवृदमंशानां ।

[98] द्विखधीकृतैस्तदुघ नवभिर्भागै: कला च भूष्टड्भिः ।

रामै: खभुजा लिप्ता गोविरसैदिक्कला: शशांकोच्चं ।

[99] गोंगभुर्जर्वा राशिः खभास्करैलि । पूप्तिकाहीनाः ॥

तत्पातो नवचंद्रैर्भागै क्ष्म्पाक्ष्मांकैश्च लिप्तिकाद्वितयं ।

[100] वांगांगशरै राशिः खधृतिदिनैविश्च विकलिका हीनाः ।

कुकुजैः कुजांशा दिवसैर्व्यगकुंजरैस्तथैव कलाः

[101] अथवा धरातनूजो नवयमनेत्रैस्तु राशयो वेदाः

द्युगणाव्दिवधो भागा विश्चैर्भूजभूधराः कला ज्ञचलं ।

Ms. B: °98 a तदुच्च 101 °गणाब्दि