पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/72

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ५]
४७
प्रत्यब्दादिशुद्धिविधिः




स्वच्छेदभक्तं घटयादिहीनरात्रावशेषकम् ।
गुर्वब्दान्ते,

[लध्वहर्गणसाधनम्]

चैत्रसितप्रारम्भाद्गतवासराः ॥ ८५ ॥
शुद्धयूना द्विरधो रुद्र[११ jहताग्निखनगो[७०३]धृताः ।
दिवसा घटच्यादियुताः तद्दिनोने दिवागणः ॥ ८६ ॥

अथवा शुद्धिविहीना दिवसाः हीनदिनहीनाः ।
द्विरधो रुद्ध[११]विनिघ्रास्त्रिखाग[७०३]भक्ता दिनादिफलम् ॥ ८७ ॥
ज्याब्दान्तावमघटिका रुद्र [११]हतास्त्रिखाग[७०३]भक्ताः ।
वियुतास्ताभिस्तद्दिवसविहीनाज्ज्यावर्षतो द्युगणः ॥ ८८ ॥

[गुर्वब्दान्ते ग्रहसाधनम्]

गुर्वब्वाः शिवनेत्रै[ २११]र्गुणिताः शश्येकबाहुधृति[ १८२११]भक्ताः ॥
लब्धसमादिविहीना गुर्वब्दान्ते रविर्मध्यः ॥ ८९ ॥

गोऽङ्गनभइन्दुतोयै[४१०६९Jर्गुरुवर्षगणान् समाहतान् कृत्वा ॥
खशिवाक्षिनागचन्द्रै[१८२११०]र्लब्धयुतो दिनकरश्चन्द्रः ॥ ९० ॥


Text of Ms. A :

[85] स्वच्छेदभत घद्यादिहीनरात्रोविशेषकं ।

गुवृंव्दांते चंद्रसितप्रारंभाद्गतवासराः ॥ ॥

[86] शुद्धय_ना दिरदो रुद्रहताग्निखनगोद्धृताः ।

दिवद्यादियुतं । तद्दिनोनो दिवागणः ॥ ॥

[87] स - शुद्धिविहीना वा दिवसाः शुद्धिहीनदिनहीना:

द्विरदो रुद्रविनिघ्रास्त्रिखागनक्ता दिनादियुतं ।

[88] ज्पाव्दातावमघटिका रुद्रहतेस्त्रिखनखाग्रनता

वियुतास्ताभिस्तद्विवसविहीना ज्पवर्षतो द्युगणः ।

[89] गुर्वव्दा शिवनेत्रैगृणिताः शशपेकराहधृतिभक्ताः

लव्दसमाधिविहीना गृवृंव्दांते रविर्मध्पः ।

[90] गोंगरसइंदुगोदैर्मुरुवर्षगणात्समाहता-त्

शशिवाक्षिनागचंद्रैर्लब्दयुतो दिनकरः चंद्रः ॥

Ms. B: 85 c °ब्दान्ते 88 °खाप्तनता 89 a गुर्वब्दा 90 d°र्लब्द°