पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/63

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

[सौरमासान्ते ग्रहसाधनम्]

कुकृतै[४१]रंशैश्चन्द्रो भौमस्तिथि[१५]भिर्बुधस्य शीघ्रोच्चम् ।
वेदेनै[१२४]र्देवगुरुर्द्वाभ्यां [२] शीघ्रं सितस्य वसुवेदैः [४८] ॥ ३९ ॥
शशिना [१] शनिनिहन्याद्रामै[३]र्मृगलाञ्छनस्य मन्दोच्चम् ।
शशिनः पातोऽथ भुवा[१] रविमासगणं त्रिधास्थितं मध्यम् ॥ ४० ॥
रामैः [३]पर्वतविशिखै५७lरमरैः [३३] कुगुणैः[ ३१] शराब्धिभिः [४५] शशिना [१] ।
रामभुजै [ २३ ] रसरामैः [३६] कलिकाभिरथान्तराशिमपि ॥ ४१ ॥
रसराममूर्च्छनाभिः [२१३६] वसुनेत्रै [ २८] रसशराष्टकुभिः [१८५६] ।
खाक्ष्यष्टकुभी [१८२०] प्रसनगरामभुजै[२३७६]र्वसुरसैणधरैः[१६८] ॥४२ ॥
शिवनभइन्दुभि[१०११]रब्धिन्यष्टकुभिः [१८३४] खखजिनांशै[२४००]र्वा ।
रविमासान्ते मध्या मासा राशीनमध्यः स्यात् ॥ ४३ ॥




Text of Ms A:

[39] कुकृतैश्चंद्रो भौमस्तिथिभिर्बुधस्प शीघ्रोच्चं ।

पेदेतैन्दवगुरुद्वभ्पां शीघ्र बुधस्य वसुवेदै: ॥ ॥

[40] शशिनाशनेर्निहन्याद्रामैर्मुगलांछतोघस्प

शशिनः पातो भूजैरसुरामै म्पा रविमासगुणं त्रिधास्छितं मध्पं ।

[41] रामैः पर्वतविशिखैरमरैः कुगणैः शराब्दिभिः शशिना

रामभुजैरसुरामै: कलिकाभिरथांतराशिमपि ।

[42] रसराममूर्छताभिर्वृसुनेत्रैरसशराष्टकुभिः

खाक्षाष्टकुभीरसनगरामभुजैर्वसुरसैणधरैः ॥

[43] शिवनभइन्दुभिरब्दिब्याष्टभिः खखजिताशैर्वा

रविमासांते मध्पा सासा राशीनमध्पस्स्पाद ।


Note, भूजैर्सुरामै in 40 b is the insertion by oversight of the same from 41. с.