पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/55

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

5. प्रत्यब्दादिशुद्धिविधिः

[ प्रत्यब्दशुद्धिविधौ अध्यहसावनावमदिवससाधनम् ]

वेदाग्नित्रिभुर्ज[२३३४]स्त्रिभूगुणबिलै[९३१३]र्भूपक्षाखाङ्काश्विभिः[२९०२१]
याताब्दा गुणिताः क्रमादपहृताः खाभ्राभ्रषट्पु[ष्क]रैः [ ३६०००] ।
लब्धान्यध्यहवासरावमगणा याताः खखाङ्गैः [६००] पुनः
शेषेभ्यो घटिकाः पलानि दशभि[१०]स्तच्छेषकेभ्योऽपि हि ॥ १ ॥

[अध्यहानयने विशेष:]

वाऽङ्केभाग्नि[ ३८९]समाहता अधिनिशाः षड्भिः सहस्रै[६०००]हृताः
विश्वे [१३] वाऽधिनिशाः खशून्ययमलै[२००]रब्दैदिनांशो[...]निताः ।
वर्षेर्वा गजखेन्दु[१०८]भिस्त्वधिनिशाः सप्ता[७]क्षभूभिः [१५] पलं
वाऽष्टद्यै[१६]कोऽधिकवासरः क्षितिधरा [७] नाडयोऽब्दकैः खेन्द्रियैः [५०] ।। २ ॥




Text of Ms. A :

[1] वोदाग्रित्रिभुर्णैस्त्रिभूगुणविलैर्भूपक्षखांकाश्विभिः ॥ ॥

याताव्दा गुणिताः क्रमादपहृताः खाभ्राभ्रषद्यु* रैः ।
लव्दात्पध्पहवासरावमगणा यात्ताः खखांकैः पुनः
शेषेभ्यो घटिका फलानि दशनिस्तश्छेषकेभ्पोपिहि ॥ ॥

[2] वाकेमानिसमाहता रविनिशा षङ्गिस्सहस्नेर्मता ।

विश्वे वाधिनिशाः खशून्पयमलैरब्दैर्दिनाद्यूनिताः ।
वर्ष्टैवार्गजखेन्दुभिस्त्वधिनिष्थास्सप्ताक्षभूमिः पलं ।
वावाष्टयैकोधिकवासर: क्षितिधरा नाद्योव्दकै: खेन्द्रियैः ॥

Ms, B : 1 cलब्दान्पध्प°