पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/45

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे


कुत्रिद्वीभदिगृक्षै[ २७१०८२३१]र्नगकुरसभखाश्वि[ २०२७६१७]भिस्त्ववमशेषात् ।
लब्धं कला रवीन्द्वोरुक्त्तवदेतौ द्युमासभागगृहैः ॥ १५ ॥

[ अवमशेषसम्बन्धि-रविगतिकलाज्ञाते रविचन्द्रानयनम् ]

द्विरस[६२]घ्नाः सूर्यकला बाण[५]विभक्ता रवि[१२]घ्नतिथिभागैः ॥
युक्ता विधोर्विशोध्याः सूर्यः सूर्योऽन्वितश्चन्द्रः ॥ १६ ॥

[ अवमशेषसम्बन्धि-चन्द्रगतिकलाज्ञाते रविचन्द्रानयनम् ]

स्वखकृतलवत्रिको[ ३/४०]नाः शशिलिप्तास्तिथिहतार्क[१२]भागयुताः ।
क्षेप्याः सवितरि चन्द्रः चन्द्रस्संशोधितः सूर्यः ॥ १७ ॥

[अवमशेषज्ञानेन रविचन्द्रानयनम् ]

त्रिखकु[१०३]हतावमविकला गो[९]घ्नावमहृत्कला गतैस्तिथिभिः ॥
सूर्य[१२]घ्नैरंशद्युताः सार्काश्चन्द्रो विधुस्तदूनोऽर्कः ॥ १८ ॥
नगगुणतिथिगोकुभुजै[ २१९१५३७] रवि[१२|गुणतिथिभिश्च संयुतः
सविता ॥
 भवति शशी शीतांशुविवर्जितो वा सहस्रांशुः ॥ १९ ॥

Text of Ms. A :


[15] कुत्रिद्वीभदिगृक्षैर्नगकुरसभखाश्विभिस्तुवशेषात् ।

लब्दं कला रवीन्द्वोरुक्तवदेतौ द्युमासभागगृहैः ॥ ॥

[16] द्विरसध्ना सूर्यकला वाणविभक्ता रविघ्नतिथिभागैः

युक्ता विधोविंशोष्यास्सूर्यस्सूर्योन्वितश्चंद्रः ।

[17] स्वखकृलवत्रिकोना: शशिलिप्तास्तिथिगतहतार्कभागयुता ।

क्षेप्पास्सवितरि चंद्रश्चंद्रस्संशोधितः सूर्यः ॥ ॥

[18] त्रिखकुहतावमविकलाद्गोघ्नावमृदूतात्कलागतस्तिथिभिः

सूर्यधैरंशद्युतास्सार्काश्चंद्रो विधुस्तदूनोर्क. ।

[19] नगगुणतिथिगौकुभुजै रविगुणतिथिभिश्च संयुतस्सविता

भवति शशी शीत्तांशुविश्वजितो वा सहस्रांशुः ॥

[Between कुभजै and रविगुण the mss. have र्लब्दकलाविवरोशैः This portion was probably interpolated in the manuscripts to make the meaning clear. But it disturbs the meter.]