पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/348

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

5. भूगोलः [भूगोलस्य निर्माणहेतुः] कर्मभिमृदुभुजां शुभाशुभैः व्योमवायुशिखितोयमृण्मयः ॥ भग्रहैस्सुपरिवेष्टितोऽम्बरे निमितस्त्ववनिगोलकोऽचलः ॥ १ ॥ [ तस्य खस्थितिः] लोहकान्तपरिवेष्टितो यथा खस्थितोऽपि न पतत्ययोगुडः ॥ तद्वदेव भखगैनिवारिता नो पतत्यविधृताऽपि भूरियम् ॥ २ ॥* यद्यधः पतनमिष्यते त्वया खस्थितस्य वद कि हद्युपर्यधः । भूगुडस्य खचरोडुसङ्गमो नास्त्यतः पततु कां दिशं प्रति ॥ ३ ॥* दिनकरास्तमयोदययोर्दिशौ वरुणवज्त्रभृतोर्यमसोमयोः ॥

ध्रुववशात् कुरवास्तदधस्थितौ उपरि भानि भुवो नभसस्ततिः ॥ ४ ॥*

Text of Ms. A : [1] कर्मभिमृदुभुजो शुभाशुभेर्व्पोमवायुभिशिखितोयमृण्मयैः भग्रहैस्सुपरिवेष्टिताम्छरे निर्मितम्त्ववनिगोलकोचलः

[2] लोहकान्तयरिवेष्टितो यथा खस्छितोपि नियतत्पयोगुडः । तद्वदेव भखगैर्निवारिता नायतत्पविधृतापि भूरियम् । 

,[3] दिग्वतः यतनमिष्पतेत्प [gap] यत इहा कुकव्पता भूगुडस्प खचरोडुसंघयो नास्त्पातः पतनु का दिशं प्रति [4] दिनकरास्तमयोदपयोर्दिशोर्वरुणवज्त्रभृतार्यमसोमयोः क्रयवशात्कुरवोस्सदधस्छितौ उपरि भानि भुवा नगस्त्पतः । 1. Cf. LG, iv. 1. 2. Cf: LG, iv. 2. 3. Cf. LG, vii. 38. 4. Cf. LG, iv. 5.