पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/337

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१४ वटेश्वरगोले [अध्याय: 3) विषुवद्दिवसे द्युमध्यजे नरदृग्ज्ये अवलम्बकाक्षजे ।'

अवनौ विवरं नराग्रकं नृतलास्तोदयसूत्रयोर्भवेत् ॥ १८ ॥

नृष्मस्तकास्तोदयसूत्रमध्ये धृतिः स्वतःच्छब्दविशेषिता स्यात् । । नृदुग्गुणौ कोटिभुजौ तु यस्य त्रिज्या श्रुतिः क्षेत्रमथायतं तत् ॥ १९ ॥ नृतलनृप्रमिते भुजकोटिके धृतिमितश्श्रवणोऽपरमायतम् ॥ समनुकोटद्युदयाग्रभुजं तथा स्वधूतिकर्णमथापरमायतम् ॥ २० ॥ कुज्यापमज्यामितबाहुकोटिग्रहोदयाग्राश्रुतिकं तथाऽन्यत् । क्रान्तिद्युञ्जीवाभुजकोटिकं यत् क्षेत्रं त्रिभज्याश्रवणं वदन्ति ॥ २१ ॥४ कुज्या भुजाऽस्तोदयसूत्रभेदो नरो द्युञ्जीवा श्रवणोऽपरञ्च ॥ अग्रा भुजाऽस्तोदयसूत्रखण्डं शङ्कुस्त्रिभज्या श्रवणोऽपरञ्च ॥ २२ ॥ Text of Ms. A : [18] विषुवदिवसे द्युमध्पजे नरदृग्ज्पे अवलम्छकाक्षजे अवनो विचरं नरोग्रकं नृतलास्तोदयसूत्रयोर्भवेत् ।

[19] नृमस्तकास्तोदयस्नत्रमध्ये धृतिस्वतछब्दविशेषिता स्पाच

नृदृग्गुणो कोटिभुजौ नु यस्प त्रिज्पा श्रुतिक्षेत्त्रमथायतं तत् ॥ [20] नृतलनृप्रतिते भुजकोटिके धृतियितश्श्रवणो यरमायतम् समनृकोभ्पुदयाग्रगुण तथा स्वधृतिकर्णमथापरमायतम्।

[21] कुज्पायमज्पायिते छाहुकोटि ग्रहोदयाग्राश्रुर्तिकं थथान्पत् । क्रान्तिद्युञ्जीवाभुजकोटि चान्प क्षेत्त्रं त्रिभज्पाश्रवणं वदन्ति ।
[22] कुज्पा भूजास्तोदपमूलभेदा नरद्युजीवाश्रवणो यरं लं च

अग्रा भुजास्तोदयस्तत्रखण्डशंकुस्विभज्पा श्रवणो यरं च । k. Cf LG, ii. 24.