पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/290

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

6. लघूपकरणविधिः [ स्पष्टतिथिसाधनार्थं प्रथमविधिः] [क्षयकल्पना]

अवमशेषयुगाधिकसंहतेः कुदिनलब्धयुतोऽधिकशेषकः ॥ हिमगुमासहृतांशकपूर्वकं रविविधूच्चयुतं क्षयसंज्ञकम् ॥ १ ॥

[रविचन्द्रयोः केन्द्रसाधनम्।] भूदिनाप्तमवमावशेषकाद्यातमासदिनसंयुतं पृथक् ॥ विश्व[१३]सङ्गुणमृणोनितं क्रमात् केन्द्रके रविहिमांशुमालिनोः ॥ २ ॥ [स्पष्टतिथ्यानयनम्] तत्फले सविकलं स्वकेन्द्रके स्पष्टवच्च ऋणसंयुते स्फुटे । उत्तवच्चरदलं स्वदो:फलं सूर्यदो:फलमथाध्वकर्मजम् ॥ ३ ॥

नाडिका रवि[१२]हृतान्यमून्यलं प्राक्तनावमघटीष्वृणं [ध]नम् ॥ उक्तवद्रविभवा विपर्ययात् स्यात्स्फुटा गततिथिस्त्विनोदयात्

Text of Ms. A :

[1] अश्वमशेषयुगाधिकसंहतेः कुदिनलव्धयुतोधिकशेषकः

हिमगुणमासहृतांशकपूर्वकं रविविधुश्च युतं क्षयसंज्ञकम् ।

[2] भुदिनाप्तमवमावशेषकाद्यातयासदिनसंयुतं पृथक्

विषमंगुमृणोनितं क्रमात्केन्द्रके रविहिमांशुमालिनोः ।

[3] तत्फले रविकलं स्वकेद्रके स्पष्टयङ्कनगसंवृतत्

उतवच्चरदलं स्वदो:फलं सूर्यदो:फलमथाघ्पकर्मजम्

[4] नाडिका रविहृन्पमून्पलं प्राक्तनावमघटीष्दृण - नम् ।

उक्तवद्रविभवा विप्रर्ययात्स्पात्स्फुटा गततिथिस्त्विनोदयात् Ms. B : 1 b 9लब्ध°