पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/260

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोका: २०-२४} स्थितिविमर्दखण्डसाधनम् २३५ सपातचन्द्राद् भुजशिञ्जिनी वा व्यासाङ्घ्रिभक्ताऽक्षगुणेन्दु[१३५]निघ्ना । क्षेपश्शतकात्री[१००] त्रिनगार्क[१२७३]हृद्वा कुबाण[५१]भक्त्ता कृत[४]सड्गुणा वा ॥ २० ॥ [ग्रासमानम्] छादकः शिशिरदीधितेस्तमो भास्करस्य हिमगुर्यतस्ततः ॥ ध्वान्तचन्द्रमितिसंयुतेर्दलाच्छेपकेन रहिताद्विधोर्ग्रहः ॥ २१ ॥ ग्राह्यतस्समधिकः समस्तकः खण्ड एव लघुको मुनीरितः ॥ मानसंयुतिदलाद्यदाधिक: क्षेपको न हि भवेद्ग्रहस्तदा । २२ । [ दृश्यमानम्] अन्तरेण तिमिरेन्दुखण्डयोः क्षेपके विरहितेऽवशेषकम्।

दृश्यते नभसि शीतगोर्यदा नावशेषमखिलस्तदा ग्रहः ॥ २३ ॥

[स्थितिविमर्दखण्डे]

ग्राहकस्य दलमूनसंयुतं ग्राह्यमानशकलेन वर्गयेत् ॥ क्षेपवर्गरहितात् पृथक्पदे लिप्तिकाः स्थितिविमर्दखण्डयोः ॥ २४ ॥

Text of Ms. A : [20] सयातमहितचंद्राभुजशिञ्जिनी वा व्पासहताक्षगगुणैन्दुतक्त्ता क्षपेशशतघ्नी त्रिनगार्कहद्वा कुछाणभक्त हृत्तसंगुणा वा रा

[21] छादकः शिशिरदीधितेः तयां भास्करस्प हिमगुर्यतः ततः । ध्वान्तचंद्रमितिसंयुतोग्दला क्षयेकेन रहिताद्विधोर्म्रह। 

[22] ग्राह्यतस्समधिकस्समस्तकः खलु खण्ड पव लघुको मुनीरितः मानसंपुतिदालाप्पदौधिकाः क्षेपको त हि भवेद्गहस्तदा ।

[23] अन्तरणे तिमिरेदुमानायाः क्षेपको विहितौवशेषकम् ।

दृश्पते नभसि शीतगोत्रतवच्छेषमव्रतिखिलस्तदाग्रहः ।

[24] ग्राहकस्प दलमूनसंयुतं ग्राह्यमानशकलेन वर्गयेच

क्षेयवर्गरहितान्मृषक्षदे लिप्तिकाः स्पितिविमर्दस्रण्डयोः । Ms. B : 20 b°नक्त्ता 20c क्षपेशतघ्नी 21 dक्षेपकेन रहिताद्विधोर्ग्रहः ॥ 23 c ०गोन्न° 23 d °तवेछे° 24 c क्षेपवर्ग°