पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/258

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः १०-१४] रविचन्द्रतमोबिम्बसाधनम् २३३ शशिकर्णहतोऽथवा भुवः व्यासः कुद्युतिभाजितः फलम् ॥ अपनीयमिलाप्रमाणतः शेषं स्यात्तमसः प्रमाणकम् ॥ १० ॥ [कलात्मकानि बिम्बानि ]

रविचन्द्रतमःप्रविस्तरास्त्रिज्याघ्ना रविचन्द्रचन्द्रजैः ॥ विभजेत्स्फुटकर्णकै: क्रमात् तद्विम्बानि कलागतानि [वै] । ११ ॥

कुमिति-क्षि[ती]नविस्तरान्तरे चन्द्रार्कश्रवणोद्धृते हते । त्रि[भ]मौर्विकया फलान्तरं मानं वा तमसः कलागतम् ॥ १२ ॥ गतिफलं निजमध्यमभुक्तिहृत् सुर[३३]हतं स्वमृणं च सुरेषु[ ३३]तः ॥

गतिवदेव मिती रविसोमयोरिह वदन्त्यथवा कलिकागते ॥ १३।।

[प्रकारान्तरेण रविचन्द्रतमोबिम्बसाधनम्]

अमरा[३३]भिहता स्फुटा गतिर्भक्ता मध्यमयाऽथवा मितिः ॥ नख[२०]हृज्जिन[२४]हृत् स्फुटा गतिर्मानेऽज[११]हता रवेः स्फुटे ॥ १४ ॥

Text of Ms. A :

[10] शशिकर्णहताथवालुचः । व्पा ** सः स्वद्युतिराजितः फलम् ।

अयनीयमिलाप्रमाणाः शेषं स्पात्तमसः प्रणाहम् ।

[11] रवितंद्रतमःप्रविस्तरास्त्रिज्पाघ्ना रविचंद्रचंद्रजै:

विभजत्स्फुटकर्णकै: क्रमात् तद्विठानि कलागतानि

[12] भुतमितिक्षिनहिस्तरान्तरे चंद्रार्कश्रवणोद्धृत हते - चिमौर्षिकया फलान्तरं मान वा तमसः कलागतम् । 

[13] गतिफलं निजमध्पमशुक्तिहृत् । सुरहतं स्वमृणं च सुरेषु तत् गतिवदेव मिती रविसौमयौरिह वदन्त्पथवा कलिकागते ।

[14] अभरासिहता स्फुटा गतिभक्ता मध्पमयाथवा मितिः

नस्वहृज्जनहृचफुटा गतिर्मानेजहता रवेः स्फुटे ।

Ms. B : 1 1 b चन्द्रजै: 1 1 d तद्निंगतिकला [may also be read as तद्विंवानिकला

12 c चिमौषिकया 13 c रचिसौमयौ 14 a अमरा० 14 b भक्वा